पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

208 सभ्याख्यायामद्वैतसिद्धौ [ प्रथमः न चाभ्यस्तत्वे उत्पत्त्याद्यनुपपत्तिः ; अनध्यस्तस्य क्वाप्युत्पत्त्या- द्यदर्शनेनाध्यस्तत्वस्यैव तदुपपादकत्वात्, सत्कार्यवादासत्कार्य- - वादनिषेधेनानिर्वचनीय कार्यवादमात्रे कार्यकारणभावपर्यवसा- नात् । तदेवं कृत्स्यस्य प्रपञ्चस्याद्वये ब्रह्माण कल्पनोपपत्तेर्न प्रतिकूलतर्कपराहतिः ॥ इत्यद्वैतसिद्धौ ब्रह्मणि प्रपञ्चकल्पनोपपादनेन प्रतिकूलतर्कनिराकरणम् ॥ तविषयकज्ञानस्य भ्रमपदार्थत्वादीश्वरीय प्रपञ्चज्ञाने च निश्चयत्वस्य बाधित विषयकत्वेनेश्वरेण ज्ञातत्वस्य च सत्वान्न भ्रमपदार्थत्वमिति भावः । सत्कार्यवादासत्कार्यवादनिषेधेनेति । उत्पत्तेः पूर्व कार्यस्य सत्वे कारणव्यापारवैय्यर्थ्यमभिव्यक्तचत्वे सैवासतीति कार्यमेवासदास्ताम्, असत्वे चोत्पत्तिपूर्वकालस्य कार्यासम्बन्धित्वेनावच्छेदकत्वासम्भवात्काला- नवच्छिन्नासत्वस्य सत्वविरुद्धस्यापत्तिः । अत उत्पत्त्यादिकं प्रतीयमानं विचारासहत्वादनिर्वाच्यमित्यनिर्वाच्यवाद एव पर्यवसानम् । उक्तं हि - का तदस्तु गतिस्तत्वत्प्रतीतिव्यवहारयोः । उपपादयितुं तैस्तैर्मतैराशंक नीययोः । अनिर्वक्तव्यतावादपादसेवागतिस्तयोरिति । तर्कैः सारस्वतै रनैश्चन्द्रिकाचन्द्रभूषणैः । मिथ्यानुमितौ ध्वान्तमको दुस्तर्कभञ्जनः । इति प्रतिकूलतर्कनिराकरणम्. 1 रशक- क. ख.