पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रतिकूलतर्कनिराकरणम् 207 --- नेन तस्य भ्रमयितृत्वाद्युपपत्तेः 'परिकल्पितोऽपि मरणाय भवे- दुरगो यथा न तु नभो मलिनमि' ति न्यायात् । ननु – जीवानां वाय्वादिभ्योऽग्नयाद्युत्पत्तिरिति भ्रमोऽस्ति, यः स्वाप्रश्रम इव श्रुते- रालम्बनं स्यात्, न च भ्रान्ति विना कल्पितमस्ति; न चैत- द्वाक्यजभ्रान्तिकल्पितमेव एतद्वाक्यालम्बनम् ; वेदस्य भ्रमजन - कत्वप्रसङ्गात्, अनुवादे तु न दोषः, न चेश्वर एव तत्तत्कल्पकः तस्य भ्रान्तत्वप्रसङ्गात्, तदभ्युपगमेऽपि न निस्तारः; भ्रान्ते- देहेन्द्रियादिकार्यत्वात्तेषां च पृथिव्यादिकार्यत्वात्पृथिव्याद्युत्पत्तेः प्राक् भ्रान्त्ययोगादिति - चेन; भ्रान्तिमात्रे देहेन्द्रियाद्यपे- क्षायाः प्रागेव निरासात्, ईश्वराध्यस्त वाय्वादिहेतुकाप्रथाद्युत्प च्यालम्बनत्वेन वेदस्य भ्रमाजनकत्वात्, अध्यस्तस्य चाध्यस्त- स्वेन स्फुरणान्न मायाविन इव ईश्वरस्य भ्रान्तत्व प्रसङ्गः । -- सर्वकार्यहेतुत्वेश्वरत्वादीत्यर्थः । न्यायादिति । यथा प्रातीति- कत्वाविशेषेऽपि सर्पो मरणहेतुर्भयविशेषोत्पत्तिद्वारा न तु नभो- मालिन्यं तथा स्वभिन्नत्वादिना परोक्षतया कल्पित ईश एव स्वोत्तर- सर्वसंसारभ्रमे हेतुर्नियन्तृत्वादिमान्नान्य इत्यर्थः । भ्रमाजनकत्वादिति । वस्तुतः स्वामसृष्टिबोषकश्श्रुतेरिवा काशाद्वायुरित्यादिश्रुतेरप्युत्तरोत्तरस्याः पूर्वपूर्वकल्पसिद्धजीवभ्रमानुवादत्वसम्भवात् । तादृशश्रम परम्परायाश्चा- नाद्यविद्यादिसिद्धत्वान्नानुपपत्तिः । किञ्चानुवादे तु न दोष इति कथमुक्तम् ? अनुवादाभावेऽपि श्रुतेरद्वैत तात्पर्यकत्वेन श्रमजनकत्वस्या- दोषत्वसम्भवात् मानान्तरकृतबाषासम्भवेन श्रुत्या तादृशभ्रमजनन- सम्भवात् तादृशभ्रमस्य तत्वतो भ्रमत्वेऽपि व्यावहारिकप्रमात्वाञ्चेति ध्येयम् || , भ्रान्तत्वप्रसङ्ग इति । निश्चयस्याप्रामाण्यधीशून्यस्यैव बाघि