पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] द्वितीयमिथ्यात्वनिरूपणम् त्वमुपपद्यते । अतएव कपालादिसम्बन्धावच्छेदेन घट दिसम्बन्धोपि चित्युपपद्यते । स्वेतरकारणकूटावीशष्टं यत्परिणाम्युपादानं तस्त्वाधि- करणक्षणाव्यवहितोत्तरक्षणावच्छेदेन स्वावच्छेदेन च चित्सम्बन्धस्व- परिणामकं भवतीति व्याप्तेः । न च तत्र मानाभावः । मूले संयोग इतिवत् कपाले घटं साक्षात्करोमीति विशेष्यतारूप एकसम्बन्धाव- च्छिन्नस्य प्रकारतारूपापरसम्बन्धस्यानुभवादिति ब्रूषे, तर्हि उक्तो- पादानमुक्तावच्छेदेन चित्सम्बद्धो यः स्वपरिणामस्तदवच्छेदेन चित्स- म्बद्धस्वतादात्म्यकं भवतीति व्याप्तेः । अन्यथा घटवच्छेदेन कपा- लावितादात्म्योत्पत्त्यनुपपत्तेः घटं कपालं साक्षात्करोमीति प्रत्ययस्यो - ततादात्म्यविषयकस्यापलापापत्तेः । अहंकारावच्छेदेन चित्सम्बन्धम- ज्ञानतादात्म्यमपि स्वीक्रियताम् । प्रतियोगितासम्बन्धेन तादात्म्यं प्रत्य- ज्ञानाश्रयत्वतदवच्छेदकत्वयोरिव परिणामाव्यवहित पूर्ववृत्तिपरिणामित्व- स्यापि प्रयोजकतया उत्पद्यमानस्य कपालादितादात्म्यस्य घटाद्यव- च्छेदेनेव अज्ञानतादात्म्यस्य अहंकारादिकार्यमात्रावच्छेदक' चित्स- म्बन्धसम्भवात् । न चैवमेकचित्यहंकाराज्ञानयोः सम्बन्धादहमज्ञ इति धीः, न त्वहंकारविशिष्टे अज्ञानसम्बन्धात् । अन्यथा अहमनुभवा- मीति धीरहङ्कारविशिष्टे अनुभूतिसम्बन्धादित्यपि स्यादिति विवरणो- तिविरुद्धेति वाच्यम् । तस्यानवच्छिन्नमनाद्यपि तादात्म्यमज्ञानस्य चित्यस्ति भावाकारत्वेन अज्ञानस्य तमआदि वदाश्रितत्वनियमात् । अहंकारायवच्छिन्नचिदाश्रितेन तेनाहंकारादिजननासम्भवात् । मुख- दर्पणादेर्बिम्बप्रतिबिम्बीभूतमुखभेदकत्ववत् चिन्मा- त्राश्रितस्याज्ञानस्य बिम्बप्रतिबिम्बीभूतचिद्भेदकत्वौचित्यादित्यत्रैव ता- त्पर्येण कार्यमात्रावच्छिन्नस्य कार्यस्याज्ञानतादात्म्यस्य निरासे तात्प र्याभावात् । यदि चाज्ञानान्यस्य परिणामिन एव परिणामावच्छेदेन 1 वच्छेदेन. 2 आवारकत्वेन. मात्राश्रितस्य 53