पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैत सिद्धिव्याख्यायां गुरुचन्द्रिकायां द्वितीय मिथ्यात्वलक्षणम् प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वं वा मिथ्या- व्याघातसाध्यवैकल्यादिकं तु परस्परविरहत्वानङ्गीकारादेव परिहृतम् । तत्तद्बुद्धयभाव एव सत्त्वाभावः तद्भेद एव सद्भेद इत्युक्तरीत्या एकैव तादृशी उक्ति: अमौ शलभीकृता । 52 [ प्रथमः 'नेह नानास्ति' इति श्रुत्यर्थे विवदमानं प्रति तन्निर्णयाय साध्यान्तरमाह — प्रतिपन्नेत्यादि । प्रतिपन्नोपाधिः स्वप्रकारकधीविशे- ष्योपाधिः । नन्वविद्योपहितचिद्रूपां घियमादाय अविद्याश्रये युद्ध- चिति नाविद्याप्रकारकधीविशेष्यत्वं सम्भवति, यो हि चिञ्चेत्यसम्बन्धः यस्य चिञ्चेत्यसम्बन्धस्य अवच्छेदकः सः तं प्रकारतारूपं प्रति विशे- प्यता न वाऽविद्याचित्सम्बन्धंप्रति स कोऽपि तथा । न चाज्ञोऽहम- हमज्ञ इति परस्पराध्यासात् अहङ्कारचित्सम्बषोऽज्ञानचित्सम्बन्धावच्छे- दक इति वाच्यम् । अज्ञानचित्सम्बन्धावच्छेदेन अहंकाराध्यासेऽपि अहंकारचित्सम्बन्धावच्छेदेन अज्ञानसम्बन्धाध्यासासम्भवादधिष्ठानस्या- धारतावच्छेदकस्य चैव सम्बन्धाध्यासो हि आरोप्यचित्सम्बन्धाव- च्छेदेन स्वीक्रियत इत्युक्तम् ' । अज्ञानं तु नाधिष्ठानं न वाऽऽधा- रतावच्छेदकमिति चेन्न; तथा सति अज्ञानसम्बन्धोप्यहंकारसम्ब न्धावच्छेदको न स्यात् । अज्ञानाधारतावच्छेदकत्व स्यैवारोप्यसम्ब- न्यावच्छेदकत्वे नियामकत्वात् । न चेष्टापत्तिरिति वाच्यम्; अज्ञा- नविशिष्टे अहंकाराध्यासस्य पञ्चपाद्यादौ सिद्धान्ताबन्दी चोक्तत्वात् । अथ प्रातीतिकारोप्यसम्बन्धविच्छेदकत्वं प्रत्येवोक्तावच्छेदकत्वस्य निया- मकत्वात्तदभावेऽपि अज्ञानस्य व्यावहारिकाहंकारसम्बन्धावच्छेदक- 1 2 1 इति युक्तम्. 2 अज्ञानसम्बन्धस्य.