पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रपञ्चमिथ्यात्व निरूपणम् 51 पूर्वकत्वमेवानुमितं न त्वभावजन्यत्वामति । यदिच केनचित् असत्सत्त्वेन प्रतयित तदा सत्तादात्म्यसत्त्वान्यतरवत्त्वमपरोक्षत्वं वा सत्त्वेन प्रतीय- मानत्वशब्दार्थः । प्रतीयमानेत्यस्य प्राप्यमानार्थकत्वात् अपरोक्षत्व- स्यापि सत्त्वरूपत्वादुक्तार्थपर्यवसानात् । अस्ति च सत्तादात्म्यं स्वभिन्ने तत्त्वं च तत्रातीन्द्रियमपि ईश्वरापरोक्षमेव । न चासत्तथा कस्यापि सम्मतम् । तस्मात् शुक्तिरजतादेः तादृशस्याप्यसदिति व्यवहारो न परस्य युक्तः सत्त्वासत्त्वयोः 'परस्परात्यन्ताभावरूपत्वोक्तिरपि परस्य न युक्ता, सर्वदेशकालीयात्यन्ताभावप्रतियोगित्वरूपासत्त्वस्य हि भावत्वेन असत्त्वात्यन्ताभावः। सत्त्वं वाच्यम् । तथाच त्वन्मते अत्यन्ताभावस्य असन्मात्रप्रतियोगिकत्वस्वीकारेणासत्त्वस्य अत्यंन्तासत्त्वापत्तिः । न च तार्किकादिमते तयोर्मिथो विरहत्वोक्तिरिति वाच्यं, स्वमते मिथो विरहत्वेन व्याघातोक्तयसङ्गतेः । वक्ष्यति व्यासतीर्थ: मया त्रिकाल- सर्वदेशीय निषेधाप्रतियोगित्वप्रतियोगित्वे सत्वासत्वे इति स्वीकारादि- त्यादि । एवं मिथ्यात्वलक्षणे सद्भेदनिवेशेऽप्युक्तैव रीतिः । यत्तु सत्त्वासत्त्वयोरभावसाघनेऽपि ब्रह्मवत् जगत्सद्रूपं स्यात् सद्रूपत्वेन प्रमि- तत्वाविशेषात् अनेक सद्रूपकल्पनापत्तिरूपः तर्कोऽपि नोक्तप्रमितत्वाप- वादकः । अन्यथा प्रातीतिकोपि सत्तासम्बन्धो जगति न स्यात्. सत्तास्वरूपस्यैव लाघवेनानङ्गीकारसम्भवादिति जगच्छून्यं स्यादिति । सदसद्भेदादिनिवेशे तु व्याघातसाध्यवैकल्यादिति तन्मुख्यमस्तीत्युक्तम् । ब्रह्मणो बाधाभावेन सद्रूपत्वसिद्धावपि जगतो बाघे सन्देहेन विप्रति- पत्त्यर्धानेन तदसिद्धः । अतएव तत्र सत्ताधी: न प्रमा संसर्गखण्डन- युक्तिभिः, संसृष्टधमिात्रस्य अप्रमात्वनिश्चयात् । तर्हि ब्रह्मणोपि सत्ता- संसर्गधीरप्रमेति चेदेवमेव । तथापि ब्रह्मस्वरूपस्य अबाध्यत्वोपलक्षित- त्वमविवादम् । न च तत्रापि बाधावतार, बाधसाक्षित्वेन व्याघातात् । च सत्त्वात्यन्ताभावः. 1 4*