पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

JU 1 6 पञ्चपाद्यादौ तयोः पृथगुपन्यस्य दूषणेऽपि न क्षतिः । उक्तसूत्रं तु स्थिरस्य कारणत्वानङ्गकारे असदेव कारणं स्यादित्यापाद्य दूषण परम् । अतएव तत्सूत्रस्य स्थिर मनुयायिकारणमनभ्युपगच्छतां वैना- शिकानामभावाद्भावोत्पत्तिरित्यापद्येत । दर्शयन्ति चाभावाद्भावोत्पतिं 'नानुपमृद्य प्रादुर्भावात् ' इति भाष्ये । अस्थिरात्कार्यमिच्छन्तोऽर्थाद- भावात् भावमाहुरुक्तमेतत् इत्यादि भामती । बौद्धैरभावस्यार्थक्रिया- कारित्वानभ्युपगमात् कथमभावाद्भावोत्पत्तिस्तत्सिद्धान्तत्वेनानूध निर- स्यते । तत्राह — अस्थिरादिति । आपाद्यानुवादोऽयमिति वदिष्यन् क्षणिकस्य कारणत्वासम्भवमाह–उक्तमेतदित्यादिनेति । तत्र कल्प- तरुः – यत्तु अभावात् ' पुनर्नाचेतनत्वादेव कार्योत्पत्तेरनुपपत्तिः अपितु निरुपाख्यत्वादिति; पञ्चपादिकावाक्येन च निरुपाख्योपादानता जगतः सदन्वयादिति विवरणम् । तत्त्वदीपने निरुपाख्यकारणवादिनं प्रति निरुपाख्यत्वादिति हेत्वसम्भवादाहेत्यवतारितं, तदपि यदि निरु- पाख्यं कारणं वदेत्तदा उक्तहेत्वसम्भव इत्यभिप्रायकम् । अतएव शून्यमित्यपर इति भाष्ये सुषुप्ते विज्ञानलेशस्याप्यभावात् अकस्मा- देवाहमिति धीसमुदायस्योत्थाने दर्शनाद कारणस्य कादाचित्कस्य पर मार्थवस्तुत्वाभावात् असदवभास एवाहंकार इति टीका, विषयावभासा- भावात् निरालम्बनज्ञानयोगादुत्थितेन स्मर्यमाण विज्ञानत्वाच्च सुषुप्तौ विज्ञानाभावः । किंच सविकल्पकस्य स्वविषयविपरीत निर्विकल्पका- लम्बनत्ववदुत्थानकालीनसत्प्रत्ययोपि स्वविषयविपरीतशून्यालम्बनः । तदेतदाह — सुषुप्त इति । अकस्मादिति उत्थानप्रत्ययस्य पूर्व ' प्रत्यय - शून्यतया कारणशून्यतेति भाव इति तत्र विवरणम् । आलम्बनत्व- मुत्तरत्वं, अतएव जन्मादिसूत्रे सर्वकार्यमभावपुरस्सरमनुपलभ्यमान- पूर्वावस्थत्वात्, यनैवं तन्नैवं यथा परकयात्मेति । विवरणे अभाव- - 3 4 1 आस्थर. 3 अस्मर्यमाण. 4 सर्व. 2 भावात्. ·