पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रपञ्चमिथ्यात्वनिरूपणम् १ दित्येवकारेण न बोधो बाधात् किन्तु सदमे नासीदिति । न च तावता नः क्षतिः । यदि चात्मा वा इदमित्यादिवाक्यस्य तद्भाष्योक्तरीत्या अखण्डसत्स्वरूप मात्रप्रतिपादकत्वं पदान्तरसामानाधिकरण्यं च बाधा- यामग्रादिकं च न विवक्षितं, तथाच तदेकवाक्यतया सदेवेत्यादेरपि तथात्वं तथाप्यसदेबेत्यादेरुक्त एवार्थः । यदि च तुच्छस्य पदानभि- धेयत्वादसतो वाक्यार्थानिवेशेऽपि नज्युक्तवाक्यस्य तदयुक्तवाक्यार्थी- विरोधित्वमानुमाविक मिति सार्थकत्वात् प्रामाण्यमिति छान्दोग्यभाष्य- रीतिराश्रीयते तथाप्यसतस्सत्त्वेन धीर्दूरापास्तैव । ननु बौद्धैः शशविषाणादेरर्थक्रियाकारित्वं नोच्यते कार्यप्रागभावस्य तूच्यते अन्यथा ' तस्मादसतः सज्जायते' इत्यत्र 'कथमसतस्सज्जायेत' इत्याक्षेपस्य 'नासतो दृष्टत्वात्' इत्याद्यसत्कारणत्वनिरासकसूत्राणां चानुपपत्तिः । न चाबाध्यस्वरूपसत्त्वेन प्रतीयमानत्वस्यैव मिथ्यात्वशरीरे निवेशादर्थक्रिया- कारित्वस्यासत्यङ्गीकारेऽपि न क्षतिरिति वाच्यम्; अर्थक्रियाकारिण एवाबाध्य स्वरूपत्वनियमस्य माध्यमिकान्यबौद्धरङ्गीकारादिति चेन्न । उक्तश्रुतिसन्दर्भों हि इत्थं व्याक्रियते – यतोऽव्या कृतमुक्तसत्त्वाभाववत् सद नासीदिति वा तस्मादसतः सज्जायते सतस्सन्न जायते अग्रे इत्यनुषङ्गात् पश्चात् सतः कारणत्वेऽपि न क्षतिः, कुतस्तु खलु सोम्यैब स्यात् उक्तसत्त्वाभावः किं प्रयोज्य: व्याकृताभावस्याये नाशकसामग्री- प्रयुक्तत्वेऽपि सत्त्वाभावस्य न तदिति भावः । कार्यमात्रे सदन्वयात्कथं न कारणं सदित्याशयेनाह-कथमसतस्सज्जा येतेति । सतस्सन्न जायत इति नेत्यर्थः । अथवा अग्रे सदुत्पत्तौ कारणाङ्गीकारे असदेव कारणं स्यादित्यापत्त्यभिप्रायकं तस्मादित्यादि । कुतस्त्वित्यादि तूतार्थम् । कारणं विनैवाग्रे कार्याङ्गीकारे समानेऽपि पश्चात् कार्ये कारणाशीकारतद- भावाभ्यां ' तद्वैक आहुः' इति श्रुत्युक्तवादस्वभाववादयोर्भेदः । अतः 1 सदेव. A.S.V. · 49