पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

48 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां सचेतसो यतन्ते । एवंच उक्तश्रुतेः सदेवेत्यादिश्रुत्यर्थाभावबुद्धधनु- वादकत्वमेव । तच्च सदेवेत्यादिना यत्र यद्विधेयकधीर्जनिता तत्र तदभावबुद्ध्यनुवादकत्वम् । न चासदेवेत्यत्र नञ्समासगतत्वात्तद- सम्भव इति वाच्यम् । 'अ मा नो ना प्रतिषेधवाचकाः' इति शाब्दिकोक्तेः अकारस्सम्बोधने अधिक्षेपे निषेधे चेत्यव्ययवृत्त्यादा वु क्तेश्च अकारस्य स्वतो निषेधवाचकत्वसम्भवेन नविकारत्वाभावेन समासानन्तर्गतत्वात् । नचैवमपि सदित्यस्य विशेष्यवाचकत्वात् तत्सङ्गतैवकारेण इदमात्मकसतोऽन्यन्नासादिति बोधादकारेण तादृश- सदन्यदासीदिति बोधः । तथाच सत्त्वेनासतो धीरागतैवेति वाच्यम् । • असदेवेदम ' [ प्रथमः आसीत्, तत्सदासीत् ' इति श्रुतौ ‘असद्व्यपदेशान्नेति चेन धर्मान्तरेण वाक्यशेषात्' इति सूत्रेणा- सच्छब्दस्य अव्याकृतार्थकत्वनिर्णयादव्याकृतादन्यत् नासीत् अव्या- कृतमासीत् तच्च सदिति व्याकृते अग्रकालासत्त्वमव्याकृते अग्र- कालसत्त्वं सदात्मकत्वं च विधीयते । तत्राप्रकाले सत्त्वं स्थिति- मात्रामति भ्रमः असच्छब्देन च तुच्छोक्तया आसीदिति विरुद्ध- मितिमश्च स्यात् अतोऽबाध्यस्वरूपसदात्मकत्वं पृथग्विधेयम् । तत्सदासीदित्यप्रकालीनाबाध्यस्वरूपसत्तात्पर्यग्राहकमात्रं वा प्राप्तार्थत्वात् । तथाच तदेकवाक्यतया असदेवेत्यादिश्रुतावपि अव्याकृतपदोपसंहा- रादव्या कृते अग्रकालीनसत्ता अद्वितीय श्रुतावधिकोक्तावपि अव्याकृ तव्याक्कृतयोरग्रकालसत्त्वादभावविधायकत्वाविशेषाद सदेवेत्येवकारेणोक्ता भावस्य व्याकृते निषेद्धमशक्यत्वात् अव्याकृते उक्तसत्ताभावबोधनमा- त्रस्वीकारात् सत्वेनासद्धीर्दूरापास्ता । यदि च सत एव विशेष्यत्वं, तथाऽपि उक्तश्रुत्या 'आत्मा वा इदमेक एवाग्र आसीत् नान्य- त्किञ्चन मिषत्' इति व्याक्कृतार्थकमिषत्पदयुक्तश्रुत्या च एकवा- क्यत्वात् सदन्यत् व्याक्कृतं नासीदित्येवकारेण बोषेप्युक्तव्याकृतमासी-