पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] द्वितीय मिथ्यात्वा नरूपणम् 47 6 1 पादकत्व रूप प्रयोजकत्वासम्भवात् । उक्तासत्त्वस्य अभावसाधनं च व्यर्थम् । न चासद्लक्षण्यसिद्धये तदिति वाच्यम्, तस्यासत्साधारण्यात् । 'तद्वैक आहुः असदेवेदमग्र आसीत्' इत्यादिश्रुत्याऽसतः सत्त्वेन प्रतीत्यनुवादात् । न चासत इव तादृशप्रती तेरनुवादो न सत्तासम्पादक इति वाच्यम् । असद्वादिनस्तादृशप्रतीतिमन्तः इति श्रुत्या प्रतिपादनेन तत्सत्त्वसिद्धेः । न चोक्तश्रुत्या सदेवेत्यादिश्रुत्यर्थस्याभावधीरेवानूद्यते नोक्त- प्रतीतिरिति वाच्यम् । उक्ताभावस्याप्यसत्त्वेन तत्रासीदित्यनेन सत्त्व - प्रतीतिलाभादिति, तत्तुच्छम् । ' असच्चेन्न प्रतीयेत' इत्यत्राप्रतीति- रपरोक्षाध्यासाभिप्रायेण यद्यापरोक्ष्याभावरूपा तदा तस्याः सत्त्वेन अप्रतीयमानत्वेनापादने किंचिन्न बाधकम् | यदि चाध्यासमात्राभिप्रायेण सा सत्त्वेनांप्रतीतिरूपा तदापादकं सत्त्वविषयबुद्धयविषयत्वरूपं सत्त्व- प्रतीत्यनर्हत्वमिति न दोषः । उक्तश्रुत्या च सत्त्वेनासिद्धिर्नानूयते । एक इत्यनेन बौद्धानामेवोक्तेः । तन्मते ' तस्मादसतस्सज्जायते' इत्या- द्यनुपपत्तेः, कथं नु खल्वित्यादिश्रुतिदूष्यत्वस्य त्वन्मते त्वया अनङ्गी- कार|श्च । अन्ये च नासत्ख्यातिवादिनः । पतञ्जलिनाऽप्यसद्ज्ञानं सदविषयकमुक्तं शब्दज्ञानानुपाती वस्तुशून्यो विकल्प. ' इति सूत्रे । बौद्धाश्च न सत्त्वेनासद्धीमन्तः । तन्मते अर्थक्रियाकारित्वरूपसत्वस्य अति विषाणादौ बाधात् । किंच आहुरित्यनेन वचनस्य सत्त्वेनासद्विषयकत्वं लब्धं, तच्च स्वजन्यधीद्वारेति शाब्दघियस्स- त्त्वेनासद्विषयकत्वं वाच्यम् । न च तत्सम्भवति, आहार्यमात्र- निष्ठस्य तस्यानाहार्यस्वभावशाब्दज्ञानावृत्तित्वात् । न हि सवह्नि- निर्वहारत्याहेत्युक्ते राहायप्रतीतिलभ्यते । किन्तूक्तशब्दमात्रं वचन- कर्मतया लभ्यते; शाब्दाहार्यस्वीकारेऽपि पूर्वपक्षतया न तदुपन्यासो युज्यते । न हि सवह्निर्निर्व हरित्याहेति पूर्वपक्षीकृत्य तदूषणाय 1 सत्त्वेन असिद्धीर्नानूद्य बोध्यने. इति पा.

-