पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

46 दिक् ॥ अद्वैनसिद्धिव्याख्यायां गुरुचन्द्रिकायां इति सदसद्विलक्षणत्वरूपप्रथममिथ्यात्वविचारः [ प्रथमः मिथ्यात्वासम्पादकाभावादिघटितं साध्यसामानाधिकरण्यावच्छेदकरूप- व्याप्तनिरूपकत्वादिरूपं वा । अवच्छेदकत्वादिकं चाखण्डमेव मिश्रा- दिसम्मतम् । तेन सर्वत्र सर्वाभावसत्त्वात् न व्यापकत्वादि दुर्व- चम् । लौकिकव्यवहारोपयुक्ताभावस्य तदीयविशेषणतासम्बन्धानामन्यत- मत्वाद्यसाधारणरूपेण वा निवेशात्, उक्तावच्छेदकत्वस्य अभावाद्यघटि- तत्वाच्च । उक्ततादात्म्यं सर्वे मेयमित्याकारया कयाचिद्धिया तत्तद्व्याक्त- त्वने अवच्छिन्नप्रतियोगिताकः । शुद्धब्रह्माणि धर्माङ्गीकारे तु शुद्ध ब्रह्मनिष्ठायाः अबाध्यत्वव्यापक विषयतायाः तद्व्यक्तित्वावाच्छन्नप्रति- योगिताकोऽभाव: प्रवेश्य इति तु वस्तुगतिः । व्यापकत्वादिनिवेशे प्रयोजनाभावात् । गुरोरवच्छेदकत्वे तु न काऽप्यनुपपत्ति रित्याद्यभिप्रे- त्याह – दिगिति || नन्वसत्त्वं ' सत्त्वेनाप्रतीयमानत्वं, सत्त्वेन प्रतयमानत्वं च स्वरू- पसम्बन्धेन या सत्तादात्म्यप्रकारता तन्निरूपितविशेष्यत्वम् । अस्ति च तादात्म्ये तादात्म्यवति तत्र दृश्ये च स्वरूपसम्बन्धेन सत्तादा- त्म्यस्य प्रकारता । न च ब्रह्मण्युक्तविशेष्यत्वाभावादेव वारणसम्भवे सत्त्वाभावापादानं व्यर्थमिति वाच्यम् । सत्सत्प्रतियोगिकतादात्म्यव दिति प्रत्ययाभावेऽपि वस्तुगत्या सतो यत्तादत्म्यं तद्वत्सदिति प्रतीतेः । वस्तुगत्या सतो यत्तादात्म्यं तत्प्रकारतानिरूपितविशेष्यत्वस्य ब्रह्मण्यपि सत्त्वादिति त्वया अभिप्रेतम् । तदयुक्तम् – असत्त्वं हि सत्वेनाप्रती - यमानत्वम् । असच्चेन्न सत्त्वेन प्रतयेतेत्यादिना त्वयैव तस्य सत्त्वे - नाप्रतीयमानत्वे प्रयोजकत्वोक्तेः । इष्टापत्त्यादिना स्वस्यैव स्वंप्रत्या- 1 यत्त्वसत्त्व.