पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रपञ्चमिथ्यात्व निरूपणम् 1 गितावच्छेदकतावच्छेदकता यस्य तादृशाभावत्वेन तद्धीव्यक्तित्वाव च्छिन्नाभावत्वेन वा निवेशेऽपि सिद्धसाधनं; आये प्रपञ्चस्य सत्त्वेऽपि ज्ञानाविषयज्ञानस्वरूपत्वमादायार्थान्तरं, ज्ञानानां ज्ञानविषयत्ववादिप्रा- भाकारमते ज्ञानेषु चांशतः सिद्धसाधनमिति चेन्न; उक्ततादात्म्यत्व- व्यापक विषयताकं उक्ततादात्म्यत्वव्यापकं विषयत्वं वा यत्तद्वृत्त्युभया- वृत्तिधर्मनिष्ठेत्या देरबाध्यत्वव्यापक विषयताकं अबाध्यत्वव्यापकं विषयत्वं वा यत्तद्वृत्त्युभयावृत्तिधर्मनिष्ठेत्यादेश्च निर्दोषत्वात् । उक्तविषयता च शुद्धचिति सत्त्वोपहितचितस्तादात्म्यमित्याकारकज्ञानीया अबाध्यस्वरूप- मित्याकारकज्ञानीया च अस्माकं, परेषां चोक्ततादात्म्यं सर्वं प्रमेयमित्या- कारकज्ञानीया अबाध्यस्वरूपं सर्व मेयमित्याकारकज्ञानीया च, तादृशश्च प्रपश्चे, नाभावः परेषामिति न सिद्धसाधनम् । ज्ञानेषु इच्छाविषयत्वस्य सर्वैरङ्गीकारात् । ज्ञानाविषयज्ञानरूपतया स्वीकार्यतादात्म्यादिप्रपञ्चेऽपि उक्ततादात्म्यत्वव्यापकस्येच्छादिविषयत्वस्य अवश्यं स्वीकाराच 2 परिच्छेदः] 45 न चरमोक्ते अर्थान्तरसिद्धसाधने | घटादितादात्म्यविषयकवृत्तिधर्मत्वेन तत्तद्भव्यिक्तित्वावाच्छन्ना प्रतियोगितावच्छेदकता यस्य तादृशाभावस्य पटादौ सत्त्वात् सिद्धसाधनम् । अतोऽनवच्छिन्नेति । उक्तविषयता- कत्वादिना सिद्धान्ते न प्रतियोगितावच्छेदकता, किन्तु तत्तद्व्यक्ति- त्वेन, चिन्मात्रनिष्ठोक्ततादात्म्यनिष्ठप्रतियोगितासमनियतस्य तत्तद्धव्यि- क्तित्ववत एव लघुत्वात् । तन्निवेशे च सिद्धसाधनम् । उक्त- तादात्म्यं सर्वं प्रमेयमित्याकारकषियों ब्रह्मविषयकत्वेन अवच्छेद- कतया निवेशे सिद्धसाधनम् । तादृशषीसामान्याभावे निवेशिते अप्रसिद्धिः । सिद्धान्ते उक्तसामान्यापेक्षया लघोस्तत्तद्धीव्यक्तित्ववत एव अवच्छेदकत्वात् । परमतेऽप्यबाध्यविषयकत्वादेरेव तदपेक्षया लघुत्वेनावच्छेदकत्वात् । अतो निष्ठान्तं व्यापकत्वादिकं च । 1 सत्यत्वेऽपि. 2 ज्ञानेच्छाविषयत्वस्य.