पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

44 अद्वतीसीद्धव्याख्यायां गुरुचन्द्रिकायां [प्रथमः अबाध्यत्वरूपसत्त्वाभावावरोधीत्यर्थः । अबाध्यत्वरूपप्रतियोगिव्याधिक- रणसत्त्वाभावेति यावत् । बाध्यवृत्तिस्सत्वाभाव इति तु निष्कर्ष: । बाध्यत्वं च ज्ञानजन्यध्वंसप्रतियोगित्वं ज्ञानात्मकध्वंसप्रतियोगित्वादिकं वा प्रकृते प्रायम् । तेन प्रपञ्चे सत्त्वाभावस्य औपाधिकसत्त्वसम्बन्ध- समानाधिकरणत्वेऽपि न दोषः । न वा बाध्यवृत्त्यभावस्यैव लक्षण- त्वापत्त्या शेषवैयर्थ्य, उक्तबाध्यवृत्त्यभावस्य ज्ञानप्रागभावादावपि ' सत्त्वात् तत्र सिद्धसाधनापत्तेः । वस्तुतो ब्रह्मान्यत्वमेव बाध्यत्वं वाच्यम् । अन्यथा ह्यसत्वाभाववैयर्थ्यम् । अथवा निर्धर्मकत्वेनैवाभाव- रूपधर्मानधिकरणत्वादिति निर्धर्मकत्वज्ञानज्ञाप्यादभावरूपधर्मस्यापि ब्रह्म- णि बाधादित्यर्थः । तथाच धर्मिसमानसत्ताकस्य सत्त्वाभावस्य आश्रयत्वं प्रकृते वाच्यम् । धर्मिसमानसत्ताकस्य असत्वाभावस्याश्रयत्वं तु लक्षणान्तरम् । तदुभयमपि प्रपञ्च एवेति भावः । दृश्यमात्रं ब्रह्मणि नास्तीति बाधकेन प्रपञ्च तद्धर्मयोः बाधनात् स्वबाधकबाध्यस्य सत्त्वाभावस्य असत्त्वाभावस्य च अधिकरणत्वमेव प्रकृते वाच्यम् । यत्राधिकरणत्वं स्थाप्यं तदेव स्वमिति तु निष्कर्षः । ननूक्ततादात्म्येन ' रूपेणाभावोऽप्रसिद्धः, सिद्धान्ते तूक्ततादात्म्यस्य ब्रह्ममात्रनिष्ठतया लाघवेन व्यक्तित्वस्यैव प्रतियोगितावच्छेदकत्वात् तत्तादात्म्यव्यक्तित्व- रूपायाः तादात्म्यमात्रविषयकधिय एव तद्व्यक्तित्वेन विषयतया प्रति- योगितावच्छेदकत्वात् । तथैवाभावनिवेशे च सिद्धसाधनमुक्ततादात्म्य- मात्रविषयकर्षावृत्त्युभयावृत्तिधर्मनिष्ठानवच्छिन्नाः च प्रतियोगितावच्छेद- कतावच्छेदकता यस्य तादृशाभावत्वेन तत्तद्धीविषयतादात्म्याभावत्व- पर्यवसितेन निवेशेऽपि सिद्धसाधनम् । दृश्यानां चालनयन्यायेन मिथस्ता- दात्म्याभावात् । एवमबाध्यत्वोपलक्षित स्वरूपत्वमुक्तस्वरूपमात्रधीः तादृश- त्वेनाभावोऽप्रसिद्धः उक्तषीवृत्त्युभयावृत्तिधर्मनिष्ठावच्छिन्ना च प्रतियो- 1 ज्ञानतत्सामप्रथन्यतरजन्यध्वंसप्रतियोगिनि, तादात्म्यत्व, 2