पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रपञ्चमिथ्यात्वनिरूपणम् 43 निर्धर्मकत्वेनैवाभावरूपधर्मानधिकरणत्वाञ्चेति च शुद्धे ब्रह्मण्येव धर्मानङ्गीकारात् । प्रपञ्चमात्रस्य सत्त्वादिप्रतीतेः तत्र तदावश्यकत्वादिति चेन्न; स्वाभाविकस्य सत्त्वसम्बन्धस्य उप- हितकेवलभावेन तादात्म्यस्य च निवेश्यत्वात् प्रपञ्चे च सदधिष्ठान- तादात्म्यप्रयुक्तस्यैव सत्त्वसम्बन्धस्य सत्त्वात्, सत्त्वोपहितब्रह्मणः तादा- त्म्यस्य प्रपञ्चे सत्त्वेऽपि उक्तब्रह्मकेवलरूपत्वाभावात् । नन्वेवं सत्त्वा- नुपहितनिष्ठस्य सत्त्वोपहिततादात्म्यस्याभावः पर्यवसन्नः तथाच सिद्ध- साधनम्, ब्रह्मण एव सत्त्वानुपाहितत्वेन प्रपञ्चे तूक्ताभावस्य माध्वा- दिभिः स्वीकारादिति चेन्न; मन्मते चित्तादात्म्यस्य दृश्यमात्रे स्वीका- रेणाबाध्यत्वोपलक्षितस्वरूपतादात्म्यवत्त्वरूपम्य सत्त्वोपहितत्वस्य दृश्य- मात्रे सत्त्वेपि तन्मते घटादौ जन्यज्ञानाविषयत्वमात्र स्वीकारेण चित्ता- दात्म्यास्वीकारात् । अबाध्ये दृश्यतादात्म्यस्वीकारेऽपि तदुपाहतघटा- दितोऽन्यस्य केवलघटादेः स्वीकारादुक्ततादात्म्यानुपहित निष्ठम्योक्त- तादात्म्यस्य केवलघटादौ सत्त्वेन तदभावस्य पक्षतावच्छेदकावच्छे- देनासिद्धत्वादिति दिक् ॥ , , यदि च निर्धर्मिकभिन्न एव भावाभावयोरन्यतररानेयमः तुच्छे तदन्यतरादर्शनात् धर्माभावाश्रयतादात्म्यादेव निर्धर्मकत्वस्य केवल- श्रुत्यादौ व्यवहारादिति सूक्ष्मं पश्यसि तदा अतिव्याप्तिस्तु भ्रान्त्यै- वेत्याशयेनाह–निर्धर्मकत्वेनैवेति । यदि च शुद्धेऽप्यस्ति धर्मः, तद्वदभेदस्येव तस्यापि कल्पितस्य सत्त्वे बाधकाभावात् श्रुत्यादिनापि परमार्थतो न तत्र धर्म इति प्रतिपादनसम्भवात् अन्यथा तत्रात्यन्ता- सत्त्वबोधने प्रतीतिविरोधात् । तथाच ब्रह्मणो धर्मत्वेन प्रतीयमा- नस्य सर्वस्य अभाववत्त्वेन सत्त्वस्याप्यभावादतिव्यतिरिति शङ्कितु- र्भावः । तथापि सद्रूपत्वेनेत्यस्य अबाध्यस्वरूपत्वेनेत्यर्थः । तदभावेति ।