पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां सङ्क्रपत्वेन ब्रह्मणः तदत्यन्ताभावानधिकरणत्वात् तत्र चकारात् सत्यत्वशुद्धत्वविभुत्वादीनां ग्रहणम् । एवं च सत्त्वा- युक्तसम्बन्धश्च उपहित एव वर्तते न तु शुद्ध इति तत्र तदभाव एव ; उपहिततादात्म्येऽपि शुद्धो न सत्त्वादिधर्मक इत्याशयेनातिव्याप्त्युक्तिः'। न चैवमभावोपि स्वोपहिते न तु शुद्ध इति वाच्यम्; भावाभावयो- रेकस्यावश्यकत्वं अन्यथा निर्धर्मकत्वानुपपत्तिश्चेत्यभिमानात् । सद्रू- पत्वेनेति । उक्तसत्त्वसम्बन्धवत्प्रतियोगिकतादात्म्येनेत्यर्थः । उक्तस- म्बन्धस्य स्त्रोदन एव सत्त्वेऽपि तत्तादात्म्यं शुद्धे अस्त्येव शुद्धा- शुद्धयोस्तादात्म्याङ्गीकारात् । अन्यथा शुद्धस्याशुद्धोपरागेण भानास- म्भवेन संसारकाले स्वप्रकाशत्वं न स्यात् । न हि शुद्धस्य तदा पृथक् भानमस्ति । तथाच सति 'तमेव भान्तमनुभाति सर्वम् ' इति· शुद्धप्रतिपादकश्रुतेः 'अनुकृतेस्तस्य च ' इति सूत्रस्य चानुपपत्तिः । तदभावेति । उक्ततादात्म्याभावेत्यर्थः । तथाचोक्ततादात्म्याभाव एव निवेश्यः न तु सत्त्वाभाव इति भावः । न चोक्ततादात्म्यस्य कल्पि- तत्वेन शुद्धे तदभावोपीति वाच्यम् ; प्रतियोगिव्यधिकरणस्योक्ताभा- वस्य निवेशात् । ननूक्तसत्त्वसम्बन्धोपहितब्रह्मण एव आकाशाधु- पादानत्वात् । सत्त्वोपहितकपालादेः घटायुपादानत्वाच प्रपश्चेऽप्युक्त- तादात्म्यसत्त्वान्नोक्ताभाव इत्यव्याप्तिः, न च प्रपश्चे स्वोपहित एवोक्त- तादात्म्य मिति तदनुपहितसाधारण प्रपञ्चे अव्याप्त्युक्ति न युक्ता, सत्त्वा- नुपहितस्यैव कपालादेरुपादानत्वेन घटादितादात्म्यात् घटादौ न तारापि सत्त्वोपहिततादात्म्यामिति वाच्यम् । 'केवलो निर्गुणः ' इत्यादिश्रुत्या धर्माभावेऽपि कैवल्ये केवलं ब्रह्मास्ति न तु धर्मोप- हितमित्यन्वयव्यतिरेकाभ्यां स्वोपहित एव ब्रह्माण धर्म इति युक्तधा । उपाहततादात्म्यात् शुद्धेऽपि सत्त्वादिधर्मकत्वव्यबहार इत्याशये नातिव्याप्त्युक्तिः, 9 42 [प्रथमः