पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रतिकूलतर्कानिराकरणम्

गतेति पर्यनुयोगस्य संभवान्न नाशावस्था पूर्व स्थिता कारणव्यापारवैय्य- र्थ्यादिति कुत आगता सेति पर्यनुयोगाच्च । अथ स्थितैव सा, कारण- व्यापारस्तु तदभिव्यक्तय इति चेत्तभिव्यक्तिर्न स्थितेति तत्रैव तदा- पत्तिः । अत एव प्रतियोग्यवस्था तिष्ठत्येवाप्रे, परन्तु नाभिव्यज्यत इत्यपास्तम् । अथ पूर्वमंसत्यप्यभिव्यक्तिस्तत्तत्काले संबद्धयते सामग्री- व्याप्तेः; तर्हि पूव सदपि प्रतियोगि मुद्गरपातायुत्तरकाले न संबध्यते मुद्गरपातादिघटितसामग्रीमत्क्षणत्वस्य घटादिक्षणाव्यवहित पूर्वान्यत्वव्या- प्यत्वादिति कुत आगत इत्यस्येव व गत इत्यस्यापि नावकाश इति सुचिरं विभावनीयम् । एवं चाज्ञानतत्कार्ययोर्नाशस्तयोश्चरमक्षण एव प्रथमक्षण उत्पत्तिरिव नाशव्यवहारानुरोधात्तत्रैव नाशत्वरूपोऽखण्डघर्मः स्वीक्रियते । स च क्षणश्चरमवृत्तिरेव, न तु चरमवृत्तेरुत्पत्तिद्वितीयक्षण: ; अज्ञानादिनाशाघुगपदेव द्वैतमात्रोच्छेदे बाघकाभावादिति मुख्यपक्षोऽयं चरममुक्त इति ध्येयम् । “ निवृत्तिरात्मा मोहस्य ज्ञातत्वेनोपलक्षित इत्यादिवार्तिकं तु ज्ञानज्ञेयान्यस्या मोहनिवृत्तरप्रामाणिकत्वाभिप्रायकम् । मुक्तेः पूर्व जायमानस्य मोहनाशव्यवहारस्योक्तरीत्योपपत्तेरात्मनो नाशत्वे मानाभावात् । मुक्तिकाले च तन्नाशे अतीतत्वमेव व्यवह्नियते । अत- एव मुगरपातानन्तरं घटो नष्ट इति व्यवहारः || , यत्तु तत्र नाशोत्पत्ताबतीतत्वं व्यवह्रियते; उत्पत्तेः प्रत्ययार्थ- त्वात्, अतएव पूर्वनष्टमद्य नश्यतीति म प्रयोगः; उत्पत्ताववच्छेद- कत्वेना द्यादेरन्वयादिति मणिदीधित्यादावुक्तम् तन्न; उत्तरीत्या घटा- दिनाशस्य क्षणिकत्वेनोपपत्तावुत्पत्तेः प्रत्ययार्थत्वे मानाभावात् आद्य- वृत्ति ध्वसप्रतियोगि चिरनष्टमित्यस्याप्यननुभवपराहतत्वात् । अन्यथो- त्पत्तरपि स्थैर्यमीकृत्य चिरोत्पन्नमद्योत्पद्यत इत्यस्योक्तरीत्यावारणापत्तेः । • 1 प्रायकमुक्तम् । पूर्व क. ख. 1 189 2 अग्रवृत्ति क. -