पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

190 सभ्याख्यायामद्वैतसिद्धौ [प्रथमः अथ चिरनष्टेऽतीतत्वादि कथम्, वर्तमाननाशप्रतियोगित्वाभावादिति - चेद्वर्तमाननाशप्रतियोगी यो नाशस्तत्प्रतियोगित्वस्याप्यतीततारूपत्वात् । यथाहि घटसत्ताकाले घटप्रागभावेऽतीतत्वधीस्तथा घटनाशकालेऽपि सा। तच्चातीतत्वं वर्तमाननाशप्रतियोगिनो घटरूपनाशस्य प्रतियोगि- त्वमेव | घटस्येव तन्नाशस्य घटप्रागभावनाशत्वे तु घटनाशकाले घटप्राग- भावो नश्यतीति प्रत्ययापतिः । न च – भवन्मतेऽपि तद्घटस्योत्पत्ति- दिनद्वितीयदिने तद्धटप्रागभावो नश्यतीति घी: स्यात्, तद्घटरूपस्य नाशस्य वर्तमानत्वादिति – वाच्यम्; मन्मते प्रागभावाधिकरणचर- मक्षणस्यैव प्रागभावनाशत्वात् । अथैवमपि घटनाशकाले घटेऽतीतत्त्वं न प्रतीयेत; विद्यमाननाशप्रतियोगिनो घटरूपनाशस्य यत्प्रतियोगित्वं तस्य घटेडस्वीकारात्, घटीयचरमक्षणे स्वीकाराचेति–चेन्न; वि. द्यमाननाशप्रतियोगिनाशप्रतियोगिनाशप्रतियोगित्वस्याप्यतीतारूपत्वात्, तवापि मते विद्यमानत्वस्य तत्तत्कालरूपस्य वाच्यतया एकरूपत्वा- भावात्, घटे नाशोत्पत्यवधिकस्यानतिप्रसक्तकालस्यैव विद्यमानत्व- रूपतया निवेशेन विद्यमाननाशप्रतियोगित्वस्यैव मन्मतेऽपि सर्वत्रातीतता- रूपत्व संभवाच || वस्तुतस्तु शरदि पुष्प्यान्त सप्तच्छदा इत्यादौ सप्तमीविभक्ते- रुत्पत्यर्थकत्वस्य कृप्ततया तत एवोत्पत्तिलाभेन विवक्षितार्थनिर्वाहेण नाख्यातस्योत्पत्तिरर्थ इति ध्येयम् । (कालवृत्तिनाशप्रतियोगिकत्वादिकमेव तदुच्यताम्, सच कालः स्थूल एवेति दिक् ) | यत्त्वधिकरणब्रह्म- रूपाया निवृत्तेर्न क्षेमसाधारणं साध्यत्वम् तस्या उत्तरावध्यभावेन यद्यतिरेक इत्यस्यासंभवात्, अतएवात्यन्ताभावस्य साध्यत्वं पूर्व दूषितमिति, तनुच्छम्; यत्सत्वेऽग्रिमक्षणेऽवश्यं यत्सत्वं 'तद्व्यतिरेके 2 यद्यति ग. --- 1 अयं कुण्डलितः पाठः - ख. पुस्तके नास्ति