पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ [प्रथम: त्वनिर्वचनीया, पञ्चमप्रकारा चरमवृत्तिरूपा वा सा; सर्वथा जन्यैवेति न काव्यानुपपत्तिः । ननु -बन्धस्य ब्रह्मण्यध्यस्तत्वे ताभ- दिध्यास नसाध्यतत्साक्षात्कारनिवर्त्यत्वं श्रवणादिनियमादृष्टसा- पेक्षब्रह्मज्ञानानवर्त्त्यत्वं च न स्यात् ; नहि देवतानिदिध्यासनसा- ध्यतत्साक्षात्कारनिवर्च्य दुरितं तत्राध्यस्तम्, न वा दूरागमना- दिनियमादृष्टसापेक्षसेतुदर्शननिवर्त्त्य दुरितं तत्राध्यस्तमिति - चेन; 188 मुद्गरपाताद्युत्तरकालावच्छेदेनैव तत्तदधिकरणे संबन्धस्वीकारात् । अनि- र्वचनीयति । अनिर्वाच्यत्वेऽप्यज्ञान कालीनाज्ञानप्रयुक्तत्वेनैव ज्ञान- नाइयत्वस्वीकारान ज्ञाननिवर्त्या सा । एवं पञ्चमप्रकारापि बोध्या । वृत्तिरूपेति । एवं च घटादिनाशोऽपि मुद्गरपातादिरूपस्तस्य घटादिरूपद्वेप्यविरोधित्वेनेष्टत्वम् । विरोधित्वं च यत्र यत्क्षणे मुद्ग- रपातादिस्तत्र तत्क्षणेऽवश्यं घटाद्यभाव इत्यादिरूपं सुखविरोधित्वेन द्वेष्यत्ववत् द्वेष्यविरोधित्वेनेष्टत्वं सर्वानुभविकम् । अतएव सुखादीष्ट - विरोधितया पिशाचादिकं द्विषन्ति । तद्विशोधितया च न सिझनामे- च्छन्ति । स्पष्टश्चायमर्यो बौद्धाधिकारतट्टीकादौ । संभवति च निवृत्ते- मुद्ररपातादिरूपत्वेऽपि निवृत्तित्वेन रूपेण स्वस्यापि स्वसाध्यता । स्वोत्पत्तिद्वितीय क्षणा वच्छेद नोक्तनिवृत्तित्वसंबन्धस्य स्वस्मिन् स्वीकारेण क्षमसाधारणजन्यत्वसंभवादित्यादि मुहुरुक्तम् ॥ 1 - ननु – निवृत्तेरुत्पत्त्यभावपक्षे घटादिर्मुद्गरपातायुत्तरं क्व गत इति पर्यनुयोग इति चेत्तर्हि निवृत्तेरुत्पत्तिपक्षेऽपि पर्यनुयोगः स किं न स्यात् । अथ तार्किकादिमते तस्या अत्यन्त प्रतियोगिभिन्नत्वात्तादृश पर्यनुयोगो नतु सांख्यादिमते; तस्याः प्रतियोग्यभेदस्यापि स्वीकारान्नाशरूपेण प्रति- योगी परिणत इत्युत्तरसंभवादिति – चेन्न; तत्रापि प्रतियोग्यवस्था क 1 न नृसिझ-ग.