पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] + प्रतिकूलतर्कानिराकरणम् - समसत्ताकत्वं दृष्टमितीहापि तथेति – वाच्यम् ; साधर्म्यसम- जात्युत्तरत्वात् । वस्तुतस्तु सर्वत्र चैतन्यस्यैवाधिष्ठानत्वेन कुत्रा- पि दोषादीनामधिष्ठानसमसत्ताकत्वाभावात् । न च – बाधक- ज्ञानं सत्यमेव वक्तव्यम्, अन्यथा बाधपरम्परया अनवस्थापत्ते- रिति वाच्यम्; वेदान्तवाक्यजन्यचरमचित्तवृत्तेः कतकरजोन्या- येन स्वपरबाधकतयाऽनवस्थाया अभावात् । दृश्यत्वमात्रेण युगपत्कृत्स्नबाधसंभवात् । नहि गुहायां न शब्द इति शब्द: स्वं 185 न स्यात्तदा स्वसमानसत्ताकाविद्याप्रयुक्तं न स्यादिति तर्केण मिथ्यात्व- निश्चयः । तदिदमुक्तं कारणमिथ्यात्व इति । वेदजज्ञाने तु न तथा ; चौद्धकल्पित दोषस्य प्रातीतिकतया स्वसमानसत्ताकतत्प्रयुक्तं न स्यादि- त्यापत्तेरिष्टत्वादिति भावः । साधर्म्यसमेति । तर्क विना दोषत्वादि- साधर्म्यमांत्रणापादनबोधकवाक्यत्वात् । कुत्रापीति । ननु – शुद्ध- चिति रूप्याद्यध्यासे तस्य ब्रह्मज्ञानेतराबाध्यत्वरूपव्यावहारिकत्वापत्ति- रिति--चेन्न; शुद्धचितो रूप्याद्युपादानाविद्याविषयत्वेऽपि तदवच्छे- दकत्वस्य शुक्तयादौ स्वीकारेण तदाकारवृत्त्या तादृशावच्छेदकत्व - नाशेन रूप्यादिबाघात् 2 ॥ १ ननु – ब्रह्मज्ञानेन ब्रह्माज्ञान कार्यस्यैव बाध्यत्वेन ब्रह्माज्ञान- सम्बन्धस्य जीवेशभेदादेश्यानादिवर्णस्य बाधासम्भवेन तस्यैवाधिष्ठानस- मसत्ताकत्वेन कुत्रापीत्यादिकमयुक्तम् ब्रह्मज्ञाने स्वबाधकत्वमप्युक्तम्, तस्य दोषाजन्यत्वेनाबाध्यत्वात्, दोषस्य च सत्यत्वनियमेनाविद्याया अदोषत्वेन ब्रह्मज्ञाने तदजन्यत्वात् एकस्य बाध्यबाधकत्वयोर्विरोधाच्च । गुहायां न शब्द इत्यत्र तु शब्दमात्रनिषेध आनुभविकत्वान्नविरुद्धः, 1 कल्पित क 2 बाधस्योकत्वात्-ग. 3 वर्गस्य-ग. 4 प्ययुक्तम्- ख. ग. 4