पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

186 सव्याख्यायामद्वैतसिद्धौ

- न निषेधति; अन्यथा स्वस्य स्वेनानिषेधे तत्राप्यनवस्थापत्तिः, शब्दमात्रनिषेधानुभवविरोधश्च । यद्यपि बाघकज्ञानं वृत्युपरक्त- चैतन्यरूपं स्वतः सत्यमेव ; तथापि तदवच्छेदिकाया वृत्तेर्दृश्य- त्वेन मिथ्यात्वाद्वाघोपपत्तिः । ननु बन्धस्यात्यन्ताभावप्रतियो गित्वरूपमिथ्यात्वे तदभावार्थ यत्नो न स्यात् ; अत्यन्ताभावस्या- साध्यत्वात् । अतएव न तत्प्रतीत्यभावार्थमपि यत्नः, तस्या अपि मिथ्यात्वात्, अन्यथा मोक्षेऽपि बन्धप्रतीत्या तद्दशायामपि प्रातिभासिकबन्धापातात् । अथ पारमार्थिकत्वाकारेण मिथ्यात्वम्, शब्दत्वस्य निषेध्यतावच्छेदकत्वेन प्रतीयमानस्य शब्दमात्रे सत्वा- चेति – चेन्न; शुक्तयाद्यज्ञानतत्कार्ययोरिव शुक्तयाधज्ञानचित्सम्बन्ध- स्यापि शुक्तयादिज्ञानबाध्यत्वे नाज्ञानप्रयुक्तत्वस्यैवा ज्ञान नाश्य' तावच्छेद- कत्वस्याज्ञानतत्प्रयुक्तयोर्युगपन्नाशे तु शुक्तचाद्यज्ञानतप्रत्युक्तान्यतर- त्वेन शक्तयादिधीनाश्यत्ववत् दृश्यत्वेन ब्रह्मज्ञान नाश्यत्वस्यावश्य- कत्वात् । दोषस्य च सत्यत्वं न नः सम्मतम् ; मानाभावादित्युक्तम् । एकस्यापि भिन्नरूपाभ्यां बाध्यबाघकत्वे प्रामाणिक को विरोध: ? यथाहि शब्दत्वं शब्दमात्रवृत्ति ; तथाऽज्ञानप्रयुक्तत्वादिकं ब्रह्म- ज्ञानवृत्तीत्यलं मूढोक्तिचिन्तया । तदभावार्थ तदत्यन्ताभावार्थम् । असा- ध्यत्वादिति । निवृत्तिस्तु ज्ञानसम्बन्धस्य सम्भवति ; शशविषाण- बन्मिथ्यात्वेनासत्वात् । मिथ्यात्वादिति । तथाच तस्या निवृत्य- सम्भवेनात्यन्ताभावार्थमेव यत्रो वाच्यः । तत्र चाध्यस्तत्व दोष उक्त इति भावः । ननु – क्षेमसाधारणं साध्यत्व मत्यन्ताभावेऽप्यस्ति तत्राह – अन्यथेति । अनिवर्त्त्यस्यापि मिथ्याभूतस्य सम्बन्धत्व इत्यर्थः । पारमार्थिकत्वाकारेण मिथ्यात्वं पारमार्थिकत्वा- - 3 - 1 2 नाशनाश्य-ख. ग. चासाध्यत्व-ख. ग. 3 बन्धत्व.ग. [प्रथमः