184 सव्याख्यायामद्वैतसिद्धौ [प्रथमः - ब्रह्मज्ञानेतराबाध्यत्वरूपव्यावहारिकत्वस्य बाध्याबाध्यसाधारण- स्य मिथ्यात्वसिद्धयनपेक्षत्वान सत्वविभागासिद्धिः । ननु - दोषादीनां रूप्यादिभ्रमहेतूनां पारमार्थिकसत्वमौत्सर्गिकप्रामा- ण्येन सिद्धमिति परमार्थसतामेव तेषां हेतुत्वमिति–चेन; व्यावहारिकप्रामाण्यस्य साक्षिणा ग्रहणेऽपि त्रिकालाबाध्यत्व- रूपतात्विकप्रामाण्यं न केनापि गृह्यत इति प्रत्यक्षबाधोद्धारे प्रागेवाभिहितत्वात् । न च - रूप्याद्यभ्यासे दोषादीनामधिष्ठान भावो भ्रमत्वाभावे प्रयोजक उच्येत; तदपि न ; तावता काचदि- दोषाभावस्य तादृशस्य तत्प्रयोजकत्वसम्भवे ऽप्यविद्यादोषाभावस्य तादृशस्य तदसम्भवात्तत्काले द्वैततद्विज्ञानयोरेवाभावात् । द्वैताज्ञाने भ्रमत्वाभावप्रयो- जकत्वस्य दूरनिरस्तत्वादिति । भ्रमवैलक्षण्यं द्वैतज्ञाने नापादयितुं शक्यत इति भावः । ननु - वियदादिज्ञानस्य प्रमात्वेनेव भ्रमत्वेनापि न कार्यता ; मानाभावान्मयाऽविद्याया दोषत्वानभ्युपगमाच्च । तथा च तस्य भ्रमवै- लक्षण्यमिव भ्रमत्वमपि निर्मूलकम्, तत्राह -- कारणमिथ्यात्व इति । कारणस्याविधारूपप्रयोजकस्य, • मिथ्यात्वे ज्ञाननिवर्त्यत्वे, कार्यस्याविद्या- प्रयुक्तद्वैतमात्रस्य, मिथ्यात्वावश्यकत्वादविद्यानिवृत्तिद्वारा ज्ञाननिवर्त्त्य त्वावश्यकत्वात्। तथा च भ्रमत्वेन कार्यत्वाभावेऽपि द्वैतस्या विद्याप्रयुक्तत्वेन- ज्ञाननिवर्त्यतायोग्यत्वरूपमिथ्यात्वा द्वैतज्ञानस्य मिथ्याविषयकत्वरूपं भ्रम- त्वमर्थवशसम्पन्नमिति भावः । नन्वेवम्- - बौद्धदुष्ठवेदजज्ञानस्य द्वैत- ज्ञानस्य च कल्पितदोषप्रयुक्तत्वाविशेषेऽप्यविद्यादोषस्य द्वैतज्ञानसम- सत्ताकत्वासमत्वादिप्रयोजकत्वमिति पर्यवसितम्, तथ न युक्तम्, भ्रमत्व निश्चयात्पूर्व समसत्ताकत्वस्य ब्रह्मज्ञान बाध्यत्वादिरूपस्य तयोर- निश्चयादित्यत आह – ब्रह्मज्ञानेतरेति । तथाच पूर्व ब्रह्मज्ञानेतराबा- ध्यत्वरूपसत्ताया ब्रह्मणीव प्रपञ्चेऽपि निश्चयसम्भवात्, द्वैतं यदि मिथ्या
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७१३
दिखावट