पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] : 183 - दोषस्य ब्यावहारिकवेदापेक्षया न्यूनसत्ताकत्वेन तदप्रामाण्या- प्रयोजकत्वेऽप्यविद्याख्यदोषद्वैतप्रपञ्चयोः समसत्ताकत्वेन कार्य- कारणभावनियमेन च कारणीभूताविद्याख्यदोषाभावे कार्यभूत- द्वैतप्रपञ्चतविज्ञानयोरभावनियमेन नाविद्यामिथ्यात्वेन द्वैतज्ञान- सत्यतापातः; कारणमिथ्यात्वे कार्यमिथ्यात्वस्यावश्यकत्वात् - दोषजन्यतया । समसत्ताकत्वेनेति । ननु – स्वसमसत्ता केऽपि ब्रह्म- ज्ञानेऽविद्यादोषो नाप्रामाण्यप्रयोजकः ; मिथ्यात्वात्, अतो द्वैतज्ञानेऽपि तथा । न च ब्रह्मज्ञानेऽविद्याया उपादानत्वेऽपि भ्रमत्वेन नाविद्या- दोषनिमित्तकत्वमिति स न तत्र तथेति वाच्यम्; न हि द्वैतभ्रम- त्वेनाप्यविद्यादोषनिमित्तकता, किंतु कार्यत्वेनाविद्योपादानकत्वमेवे त्यत आह — कार्यकारणभावनियमेनेति । तथा च यत्र विषयेऽविद्या 'कारणं तस्यैव ज्ञानाप्रामाण्ये प्रयोजिकेति न ब्रह्मज्ञाने सा तथेति भावः । सत्यतापातः तात्विकप्रामाण्यादिरूपस्य भ्रमबैलक्षण्यस्यापातः । ननु – विद्यमानस्याप्यविद्यादोषस्य मिथ्यात्वेन तात्विकस्य तदभावस्य सत्वा- कुतो न तात्विकप्रामाण्यापात: १ तात्विकस्य दोषाभावस्य ब्रह्मज्ञाने तात्विक प्रामाण्यप्रयोजकत्वेन क्लृप्तत्वात्तत्राह- कारणीभूतेति । दोषा- भावे प्रतियोगिव्यधिकरणदोषाभावे । तथा च नोक्ताभावो ब्रह्मज्ञाने उक्तप्रयोजकत्वेन क्लृप्तः; आवयोः प्रामाण्यस्य स्वतस्त्वात् ब्रह्मण- स्तात्विकत्वात्तद्धीप्रामाण्यस्योक्तप्रयोजकं विनापि तात्विकत्वसंभवात्, उक्ताभावमात्रस्य तात्विकप्रामाण्यप्रयोजकत्वे काचादिदोषस्यापि मिथ्या- त्वेन तात्विकामावस्य तत्कालेऽपि सत्वेन तात्विक प्रामाण्यप्रयोजकत्वा- पत्तेश्च । अत एव भ्रमत्वे दोषस्य प्रयोजकत्वात्तदभावे तात्विक- इत्यपास्तम् । अथ प्रतियोगिव्यधिकरणो दोषा- 1 दोषाभाव: प्रयोजक 1 तात्विको दोषाभावः -ग. प्रतिकूलतर्कनिराकरणम् ●