पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

·172. सव्याख्यायामद्वैतसिद्धौ [ प्रथमः भगवता भाष्यकारेण 'सत्यानृते मिथुनीकृत्ये' त्युक्तम् । नन्वेतत्प्रपञ्चसाध्यार्थक्रियाकारिणः प्रपञ्चान्तरस्याभावेन स्वोचि- तार्थक्रियाकारिणोस्य न मिथ्यात्वमिति – चेन्न; स्त्राममायादौ व्यभिचारात् स्वोचितक्रियाकारित्वस्य पारमार्थिकसत्वाप्रयो- जकत्वात् । नापि – श्रुत्यादिसिद्धोत्पत्यादिमत्रं सत्त्वे तन्त्रम् ; स्त्रमप्रपञ्चे व्यभिचारात्, तस्यापि ' न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथयोगान् पथः सृजत' इत्यादि श्रुत्योत्पत्यादि प्रतिपादनात् । न च – कल्पाद्यभ्रमायोगः कल्पान्तरीयसंस्कारस्य तत्र हेतुत्वात् । न च – जन्मान्तरीय- संस्कारस्य कार्यजनकत्वेऽतिप्रसङ्गः अदृष्टादिवशेन क्वचिदु- द्घोघेऽप्यन्यत्रानुद्धोधोपपत्तेः, कार्योन्भेयधर्माणां यथाकार्यमुनय- नात् । अन्यथा जातस्य स्तन्यपानादो प्रवृत्तिर्न स्यात् । ननु — चैत्रेण मैत्र संस्काराध्यासेऽपि मैत्रस्य भ्रमादर्शनात् जगम हेतुसंस्कारस्य सत्त्वं दुर्वारम् | न च – स्वेनाध्यस्ता- --

मानप्रमा बाधिकोच्यते तदा प्रमायां तथा ज्ञातायां ग्रमो बाधितः सन् बाधितविषयकत्वेन ज्ञेयः । ततो भ्रमस्याबाघकत्वज्ञानात् तेना बाधितविषयकत्वं प्रमायां ज्ञेयमित्यन्योन्याश्रयः स्यात् । अबाधित विषयकधीत्वेन बाधकत्वे तु नासौ । वस्तुतस्तेन ज्ञायमानत्वरूपेण बाघकत्वेऽपि सर्वसाक्षित्वादिनाधिष्ठानस्याबाध्यत्वनिश्चयस्य प्रागुक्तत्वान्न भ्रमस्याबाघकत्वनिश्चयस्तत्रापेक्ष्यत इति नान्योन्याश्रयः । अत एवा- •विष्टानवत्प्रधानस्यापि बाघानुपलम्भ इत्ययुक्तम् ; साक्षित्वादिना- धिष्ठानस्य बाघासम्भवेऽपि प्रधानस्य संसृष्टत्वदृश्यत्वादिना बाघ- सम्भवात् । कल्पाद्यभ्रमेति । तत्कल्पीयज्ञानजन्यसंस्कारस्य पूर्वमभा- वादित्यादिः । स्तन्यपानादाविति । इष्टसाधनत्वस्मृत्मसम्भवेनेति