पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रतिकूलतर्क निराकरणम् 171 भ्रमाबाधकत्वप्रसङ्गात् जगति भ्रमबाधव्यवस्था च न स्यात् । बाधेन हि किंचिद्विरुद्धं तत्वमुपदर्शयता आरोपितमतत्वं बाघनीयम् । उभयाध्यासे तु किं केन बाध्यते । अत एव परिच्छेदः] - प्रकाशाप्रसक्तया नाज्ञानविषयत्वम् । स्वप्रकाशस्य तु चैतन्यस्य मोक्षकालेऽप्यन्वयान्नासत्यतेति भावः । भ्रमाबाधकत्वेति । व्याव- हारिकभ्रमांबाघकत्वेत्यर्थः । तेन प्रासीतिकभ्रमे मिथ्याभूतशुक्तयादि- ज्ञानस्य बाघकत्वेऽपि न क्षतिः । ननु – मिथ्याविषयकज्ञानमपि बाघ- कमस्तु तत्राह- - जगतीति | विरुद्धं व्यावृत्तरूपम् | तत्त्वं बाघ्या- पेक्षयाऽधिकसत्ताकम् । उपदर्शयता विषयी कुर्वता । एवकारः शेषः । उक्तं हि भामत्याम् – 'तत्वपक्षपातो हि धियां स्वभावः । यदाहु- बझा अपि- --- — निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः । - न बाघो यत्नवत्वेऽपि ' बुद्धेस्तत्पक्षपाततः ॥ इति ॥ बाध्यापेक्षयाधिकसत्ताकविषयकधीरेव बाधिका स्वभावात्, न तु न्यूनसत्ताकविषयकषीरिति तत्र पर्यवसितार्थः । यत्तु – स्वामस्य- गजायभावज्ञानस्य स्वानगजादिघी बाघ कत्य'माचार्यैः पूर्वमुक्तम् । तत्र बाघो मिथ्यात्वनिश्चयः । तथा च मिथ्यात्वस्य स्वान्यूनसत्ताकस्य स्वसमानाधिकरणाभावस्य प्रतियोगित्वरूपतयाऽधिकसत्ताकाभावज्ञानं विनापि तदुपपद्यत एवेति ध्येयम् || यत्त्वबाधित विषयकज्ञानस्य बाधकत्वेऽन्योन्याश्रयात् त्रिचतुरकक्षा- स्वबाधितविषया स्वप्रधीवत्पश्चाद्भाध्य' स्याप्यधिष्ठानस्य घीर्वाधिका संभ, बति, अथाधिष्ठानस्य बाघानुपलम्भात्सत्यता वाच्या ; तर्हि प्रधान -: स्यापि तत एव साऽस्त्विति -- तन्न; यदि बबाधित विषयकत्वेन ज्ञाय- 1 बाधा पुणवत्वेऽपि -ग. 2 बाधक-क. 8 धीवत्य श्राबाध्य - ग.