पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

170 सव्याख्यायामद्वैतसिद्धौ [प्रथमः - अध्यासो हि स्वकारणतया संस्कारमपेक्षते न तु संस्कारविषयस्य' सत्यताम् ; अनुपयोगात् । नच – प्रमाजन्य एव संस्कारो भ्रमहेतुः । अतो विषयसत्यत्वमावश्यकमिति–वाच्यम्; माना- भावात्, विपरीते लाघवाच्च । अत एवाध्यस्तसजातीयं पूर्व- मध्यस्तापेक्षयाऽधिकंसत्ताकमपेक्षणीयमित्यपि – निरस्तम्; सत्य- तावदधिकसत्ताया अप्यनुपयोगात् । पूर्व तु ज्ञानमात्रमपेक्षते, तच्चास्त्येव । नन्वेवमधिष्ठानस्यापि ज्ञानमात्रमेव हेतुः, न तु तदिति न सदधिष्ठानापेक्षा स्यादिति शून्यवादापत्तिरिति- चेन; अधिष्ठानस्य ज्ञानद्वारा भ्रमाहेतुत्वेऽप्यज्ञानद्वारा भ्रमहेतुत्वेन सत्वनियमात् । भ्रमोपादानाज्ञानविषयो ह्यधि- छानमित्युच्यते, तच्च सत्यमेव असत्यस्य सर्वस्याप्य ज्ञानकल्पितत्वेनाज्ञानाविषयत्वात्, तदसत्यत्वे तद्ज्ञानस्य 8 अध्यासो हीति । विपरीत इति । भ्रमजन्यसाधारणेन संस्कारत्वेन हेतुत्वे इत्यर्थः । हेतुः प्रयोजकः । न तु तदिति । न तु प्रमाघट- कतयाऽधिष्ठानसत्वं प्रयोजकमित्यर्थः । शून्यवादापत्तिरिति । तथा च यथाऽधिष्ठानप्रमाहेतुत्वेनाधिष्ठानं सत्यमपेक्षते, 2 तथा प्रमाजन्य संस्कारस्य हेतुत्वेन प्रधानं सत्यमिति शेषः । नाघिष्ठानप्रमात्वेन हेतुत्वम् ; येन दृष्टान्तेन & प्रधानप्रमाजन्यः संस्कारो हेतुरुच्येत, किंत्वज्ञानविषयक त्वेनाधिष्ठानसत्यत्वापेक्षणान्न शून्यवादापत्तिरित्याशये- नाह – नाधिष्ठानेति । ज्ञानद्वारा कारणीभूतप्रमाघटकतया । अमाहेतुत्वे भ्रमाप्रयोजकत्वे । अज्ञानद्वरा कारणीभूताज्ञानविषयतया । भ्रमहेतुत्वेन भ्रमोपादानत्वेन । अज्ञानकल्पितत्वेन अज्ञानप्रयुक्त- त्वेन । तदवच्छेद की भूतास्वप्रकाशत्वेनेति यावत् । तथा च जडस्य 1 धिष्ठानं - क. ग. 2 मपेक्ष्यते-ख. ग. 3 तद्दृष्टान्तेन-ग. 4 विषय-ग. -