पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रतिकूलतर्कनिराकरणम् रेण भेदग्रहो रूपान्तरेणाभ्यासविरोधि; सन् घट इत्यादिप्रत्यये च सद्रूपस्यात्मनो घटाद्यनुविद्धतया मानान्न तस्य घटाद्यभ्यासा- धिष्ठानतानुपपत्तिः । सद्रूपेण च सर्वज्ञानविषयतोपपत्तेर्न रूपा- दिहनिस्याप्यात्मनः कालस्येव चाक्षुषत्वाद्यनुपपत्तिः । ननु - विश्वं यदि कल्पितं स्यात्तदा सप्रधानं स्यात् । न चैवम् ; तस्मान्न कल्पितमिति चेन्न; अत्रापि प्रधानस्य सजाती- यस्य सत्वात्, पूर्वप्रपञ्चसजातीयस्यैवोत्तरप्रपञ्चस्याध्यसनात् । 169 - मानसिद्धत्वात् । चिन्मात्राविरोधित्वेऽपि वृत्युपारूढचिद्रूपमुख्यज्ञान- विरोधित्वेना ज्ञानस्य मुख्यत्वसंभवात् । न ह्यनभिव्यक्तामय दाह्यत्वेऽपि तृणायुपा रूढाग्निदाह्यस्य न मुख्यमग्निदाह्यत्वम् । तस्मादमुख्यत्वं स्वीयं नाज्ञाने त्वमारूरूरूपः' । सर्वज्ञानविषयतेति । उपपादितमेतत्पूर्व मिथ्यात्वहेतुविवेचने । यत्तु – सद्विषयक घटादिचाक्षुषादेव मोक्षः स्यादिति, तन्न; श्रवणादिप्रयुक्तवृत्तिरेव मूलाज्ञाननिवर्तिका, तस्या एवाज्ञानतत्कार्याविषयकत्वेनाज्ञानसमानविषयकत्वादित्यादे रुक्तत्वाद्धा दिवृत्त्यावरणे निवर्तिते सद्रूपं स्वप्रकाशतया भाति न तु वृत्त्यविषय इत्यादेरप्युक्तत्वाच्च । यदपि घटः स्फुरतीत्यत्र स्फुरणानुविद्धतया घंटो न प्रतीयते; किंतु घटकर्तृकं स्फुरणमिति तदपि न ; अशाब्दबोधे स्फुरणस्य घटांशेनाभात् । शाब्दबोधेऽपि तादात्म्यमाख्यातार्थ इति घटस्य स्फुरणतादात्म्यं प्रतीत्या स्फुरणाधिष्ठानकत्वाविरोधात् । अत्रापीति । प्रधानपदेन यदि देशान्तरे कालान्तरे वा विद्यमान मध्यस्तजातीयमुच्यते, तदा जगदध्यासस्य तद्वत्वव्याप्यत्वमिष्टमिति भावः । यदि तादृशं सत्यं तत्पदेनोच्यते, तदा तादृशव्याप्यत्वे मानाभाव इत्याशयेनाह- 2 वृत्तिविषय - ग. 3 भानातू - ग. माप: -ग. -