पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

168 सव्याख्यायामद्वैत सिद्धौ [ प्रथमः चेत्, न; एकस्यैवानन्दाद्यात्मना तिरोहितस्य सदात्मना प्रका- शसंभवात् । तदुक्तं वार्तिककारपादैः- यत्प्रसादादविद्यादि सिद्धूयतीव दिवानिशम् । तदप्यपन्हुतेऽविद्या नाज्ञानस्यास्ति दुष्करम् ॥ इति । न च - बाघकालेऽपि सद्वि शेषज्ञानमस्तीति वाच्यम्; परिपूर्णानन्दत्वादे: सत एव विशेषत्वेन तदा तदज्ञानाभावात् । धर्मत्वमात्रस्यैव कल्पितत्वात् । यद्वा भ्रमविरोधिज्ञानाभाव एव तन्त्रं, न तु विशेषाज्ञानम् ; विश्वोपादानगोचराज्ञानस्य श्रव- णादिजन्यमात्ममात्रविषयकं वृत्तिरूपं ज्ञानं विरोधि, न तु चिद्रूपं स्वतः सिद्धं ज्ञानम् ; भ्रमविरोधिनश्च वृत्तिरूपस्य ज्ञान - स्येदानीमभावोऽस्त्येव । नन्वात्मानात्मनोईष्टदृश्यत्वात्मानात्म- त्वादिना भेदज्ञानात्कथमध्यस्ताधिष्ठानभाव इति – चन्न । इद- मनिदं न भवतीति पुरोवर्त्य पुरोवर्तिनोद ग्रहेऽपीदं रजतमित्य - यासवत् सन् घट इत्याद्यध्यासो भविष्यति । न हि रूपान्त -- नाह - यद्वा भ्रमेति । भविष्यतीति । सन् घटो नेति भेदग्रहा- भावादिति शेषः || यत्तु सत्वपूर्णानन्दत्वादीनां मिथो धर्मिणश्च कल्पितभेदसत्वा- त्सामान्यविशेषत्वमित्यस्मदाचार्योक्ति श्रुत्वापि निर्विशेषब्रह्मवादे ब्रह्मणः सामान्यविशेषासंभव इत्यादि कूजितम् तत्स्वकुलपराभवप्रयुक्तमूर्च्छा- माहात्म्यम् । यदपि यद्वेत्यादि न युक्तम् ; मुख्याज्ञानविरोधित्वे वृत्तेर्मुख्य- ज्ञानत्वापत्तिः चिद्रूपमुख्यज्ञाना विरोधित्वेनाज्ञानस्य मुख्याज्ञानत्वा- भावापत्तिश्चेत्यादि, तदपि तथा; वृत्तिं विनापि सुखादौ ज्ञानव्यवहारा- दिना वृत्तौ मुख्यज्ञानान्यत्वस्यान्वयव्यतिरेकाभ्यामज्ञानविरोधित्वस्य च 3 मुख्यज्ञान-क. 9 - 1 असद्वि. स्वत.