पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेको प्रतिकर्मव्यवस्थोपपत्तिः 163 , समं साक्षादेवापरोक्षस्थले संबन्धः | परोक्षस्थले त्वनुमितेरनु- मेयेन तव्याप्यज्ञानजन्यत्वम्, शाब्धाः संसर्गेणं सह तदाश्रय- वाचकपदजन्यत्वम्, स्मृतेः स्मर्तव्येन सह तद्विषयानुभवजन्य- कतोपपादनं वैय्याकरणानां, तन्न ; आवरणभङ्गरूपस्य फलस्य परोक्ष- ज्ञानविषयनिष्ठत्वाभावात्, प्रमातृमात्रनिष्ठवृत्त्या प्रमातृनिष्ठस्यैवावरण- भङ्गस्य सम्पादनात्, परम्परया फलसम्बन्धमादाय सकर्मकत्वोक्ताव- कर्मकस्यापि तदापत्तेः, 'फलव्यापारयोर्घातुरि' त्यादिना तस्यापि त्वया स्ववाच्यव्यापारसमानाधिकरणफलवाचकत्वोक्तेः सुखादिस्थले आवरण- स्यैवाप्रसिद्धत्वाच्च । अत एव ज्ञानमपि न फलम् ; चैतन्यस्य तद्वृत्तिज्ञानस्य परोक्षस्य विषयनिष्ठत्वाभावाद्विषयतासम्बन्धस्य वृत्य- • नियामकत्वात्सुखादिस्थले तदसम्भवाच्च । यदपि विषयताजनकज्ञानादिकं जानात्यादेरर्थ इति तदपि न ; विषयताया ज्ञानाद्यतिरिक्तत्वेऽपि ज्ञानादिजन्यत्वे मानाभावात्, 'स्वोत्पत्ति क्षणे स्वविषयकत्वाभावात् । तस्माज्जा नातेरुक्तरीत्यैव सकर्मकत्वम् । इच्छत्यादेस्तु फलप्रयोजके च्छादिरेवार्थः । फलं चेच्छायाः सुखादौ प्रमातृसम्बन्धादिः, गवादौ स्वत्त्वादिः, द्विषेश्च शस्त्रादौ तत्तदनिष्ठम् सुखाद्यनुत्पत्तावपीच्छादेस्त- त्सम्बन्धस्वरूपयोग्यत्वानपायात् । सुखमिच्छतीत्यादिप्रयोगो ग्रामप्राप्तय- नुपघानेऽपि ग्रामं गच्छतीत्यादिप्रयोगवदिति दिक् । साक्षात्कारोतिजाना- त्योर्मुख्य सकर्मकत्वानङ्गीकर्तृतार्किकादिरीत्या तयोरर्थविवेचनं तु विस्तरेण कृतमस्माभिः पूर्वम् ॥ , साक्षादेवेति । गन्धादिभिन्ननिष्ठः स्वसंयुक्तसमवायो रूपादौ, तद्वत्समवावादी रूपत्वादौ । स च यद्यपि परम्परारूपः, तथापि द्रव्ये 19 1 ज्ञानादिपूर्व विषयत्वासत्वेऽपि ज्ञानाद्यभावा देवोपपत्तेः । ज्ञानादीनां ग. 2 स्वोत्पत्तिद्वितीयक्षणे . ना संगवात्-ग. . 11*