पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

162 संव्याख्यायाम तासी [प्रथमं ज्ञानाभावं प्रति प्रमातुरवच्छेदकत्वात्ताद्वशिष्टचितं प्रत्यप्यवच्छेदकस्वंम् । अत एव घटो जानातीति न स्यात् । घटादावसत्वापादकाज्ञाना- भावावच्छेदकत्वे मानाभावात् । असत्वापादकाज्ञानाभावप्रयोजकचिद्वा ज्ञानम् । तत्त्वं च प्रयोजकी भूतवृत्त्यवच्छिन्नत्वेन । प्रमाणाचत एच प्रयोजकतावच्छेदकप्रमातृनिष्ठतादात्म्येन तस्य विशेषणत्वनियमान्न घटो जानातीत्यादिव्यवहारः । सुखं जानामीत्यादौ च सुखादिनिरूपिता- सत्यापाद काज्ञानाभावस्य तत्तन्मनउपहितचित्येव कल्पितत्वात्सैवाघि ष्ठानत्वेन प्रयोजिका | जानातिश्चाकर्मक एव; अतएव परोक्षज्ञानस्य विवरणादावकर्मकत्वमुक्तम् । तस्य सकर्मकत्वे त्वसत्वापादका ((ज्ञानवि- रोधि) ज्ञाननिरूपकत्वस्य यदधिकरणत्वं तत्प्रयोजकाचेदेव जानातत्यिर्थः । उक्ताधिकरणत्वरूपफलवत्वेन' घटादेर्ज्ञानकर्मता | सुखादिनिष्ठे तादृशा- चिकरणस्वेऽपि सुखाद्युपहितरूपेण चित्प्रयोजिका, सुखादेरसत्वदशायां तादृशचिदमावे उक्ताधिकरणत्वाभावात्तद्भावे तद्भावाच्च । उक्तनिरूप- कत्वाभावप्रयोजकचितो जानात्यर्थत्वे घटाकारवृत्तिदशायां प्रमातारं जानामीति स्यात् ; तादृशवृत्तिप्रयुक्तस्योक्तनिरूपकत्वाभावस्य प्रमातरि सत्त्वात् । उक्ताधिकरणत्वोक्तौ तु प्रमातृनिष्ठस्य तस्य स्वतः सिद्धत्वेन घटादौ विघ्नाभावाधिकरणत्वस्य मङ्गलाप्रयुक्तत्ववत् वृत्यवच्छिन्नादिचिद - प्रयोज्यत्वान्नोक्तापत्तिः । एवं च वृत्त्यवच्छिन्नरूपेण सुखाद्युपहितादि- रूपेण च तादृशतादृशप्रयोजकत्वाद्वत्यवच्छिन्नचितो जानात्यर्थतोक्ति- रिति' तत्र तत्राचार्याणां नासङ्गता | यत्तु - आवरणभङ्गजनकज्ञानं ज्ञानानुकूलव्यापारो वा जानाते- रिच्छाद्वेषाद्यनुकूलव्यापार इच्छतिद्वेष्ट्यादेरर्थ इति जानात्यादेः सकर्म- 4 ॠत्त्यव- 1 कर्मत्वे- ग. 2 ज्ञानादिरूपकत्वस्य - ख. च्छिन्नचिद-ग. 5 तिः-ग. 3 फलत्वेन-क.