पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

164 सभ्याख्यायामद्वैतसिदो [प्रथमः त्वम् । एवमन्यत्रापि परंपरासंबन्ध एवेति परोक्षापरोक्षविभागः । विस्तरेण व्युत्पादितास्माभिरियं प्रक्रिया सिद्धान्तबिन्दौ । तस्मा- द्विषयस्य मिथ्यात्वेपि प्रतिकर्मव्यवस्थोपपत्रेति दिक् ॥ इत्यद्वैतसिद्धौ प्रतिकर्मव्यवस्थोपपत्तिः ॥ संयोगः साक्षात्सम्बन्ध इति कचित्साक्षात्सम्बन्धसत्वात्साक्षादेवेत्युक्तम् । निष्ठान्तस्थले आकाराख्यवक्ष्यमाणविषयताविशेषितति वा वाच्यम् । अवच्छेदकत्वसम्बन्धो वा साक्षात्सम्बन्धो ग्राह्यः । स च चाक्षुषादिप्रति- योगिको यथा गन्धादिव्यावृत्तस्तथा प्रतिपादितमस्माभिरन्यत्र । अय- मित्यादिस्यलेऽपि गोसादृश्यादिविशिष्टविशेष्यकस्वप्रकारकज्ञानजन्यत्वं गवयपदवाच्यत्वादे रूपमित्यादाविति शेषः । अनुमित्यादौ बन्यादेवि - धेयतारूपस्य सम्बन्धस्य निर्वचनमिदम् । वन्हित्वादौ तु तद्घटितः सम्बन्धो बोध्यः । यावद्भिः सह यस्य ज्ञानस्य यावन्तोऽसाधारणाः सम्बन्धास्तावदन्यतमत्वं तेषां तत्र सम्बन्धतावच्छेद कमनुगतमाकाराख्यः संबन्धो वा अनुगतो बोध्यः । सिद्धान्तबिन्दाविति । “शरीरं व्याप्य तस्य मध्यस्थः सत्त्वप्राधान्येन पञ्चीकृतपञ्चभूतपरिणामोऽति- स्वच्छो नेत्रादिद्वारा निर्गत्य घटादिसंसृष्टस्तदाकारो भवति । स च सौरा- लोकचक्षुरादिवत्सङ्कोचविकासशाली । तस्य च देहावच्छिन्नो भागोऽह- काराख्यः कर्ता, देहघटादिमध्यवर्ती दण्डायमानो भागो वृत्तिज्ञानाख्यः क्रिया, विषयस्थभागस्तु विषयस्य ज्ञानकर्मत्वसम्पादकमभिव्यक्तियोभ्यत्व- मुच्यते । तत्र च मनसो भागत्रयेऽतिस्वच्छे चिदभिव्यक्ता भवति । तत्र कर्तृभागावच्छिन्ना सा प्रमात्री, क्रियाभागावच्छिन्ना प्रमाणम्, विषयगतभागावच्छिन्ना प्रमितिः, प्रमेयं तु विषयगतं ब्रह्मचैतन्यम्, तदेव ज्ञातं सत्फलम्" इत्यादि प्रक्रिया सिद्धान्तबिन्दूक्ता | , 1 उपमित्यादिस्थलेऽपि-ग. 2 ज्ञानं -ग.