परिच्छेदः] प्रतिकर्मव्यवस्थौपपत्तिः 131 अतएव तदितरहेतुसाकल्ये सति घटचक्षुः सन्निकर्षस्यैव घटा नुभवजनकत्वम्, न तु घटमनःसन्निकर्षस्य, तद्विलम्बेन तद्वि लम्बाभावादिति निरस्तम्; आवरणभङ्गे समिकृष्टतेजःकरण त्वावधारणेन तस्याप्यावश्यकत्वात् । न च–स्वार्शनप्रत्यक्षे चक्षु- रादिवन्नियतगोलकद्वाराभावेनान्तःकरणनिर्गत्ययोगादावरणाभि- , विषये इच्छाद्यसम्भवात् । घटचक्षुरिति । घटेन्द्रियेत्यर्थः । घटानु- भवेति । घटप्रत्यक्षेत्यर्थः । जनकत्वं प्रयोजकत्वम् । करणत्वावधार- णेन सामान्यतः सन्निकर्षसम्बन्धेन तेजस्त्वेन, विशेषत उक्तसम्बन्धेन वृत्तिज्ञानत्वेन कारणत्वावधारणेन । यद्यपि चाक्षुषवृत्तिस्थले आलोकादि- तेजः सम्भ॑वति, तथापि रासनादिवृत्तिस्थले तदभावात्, कार्यान्यथा- • नुपपत्त्या तेजस्त्रसरेण्वादिसन्निकर्ष कल्पनायाश्चानुगत नियामकाभावेना- सम्भवात् तावतापि वृत्तिसंश्लेषरूपविशेषप्रयोजका निर्वाहादिन्द्रिय सन्नि- कर्षरूपानुगत कारणनियम्यो वृत्तिज्ञानरूपतेजः सन्निकर्ष एवावरणाभिभव- द्वारा साक्ष्युपरागघटनद्वारा वा विषयसाक्षात्कारे प्रयोजक इति भावः । वस्तुतस्तु मनसोऽणुत्वमते विषये संश्लेषो यद्यपि न सम्भवति; मरण- पर्यन्तं तस्य देहात्यागात्, तथापि तम्य महत्वमते तत्सम्भवाच्चाक्षुषादि- वृत्तौ चक्षुरादेर्मनसो वा सन्निकर्षो विजातीयत्वेन हेतुरित्यत्र विनि- गमकाभावाद्विषयमनःसन्निकर्षश्चाक्षुषादिम्थले आवश्यकः, विषयन्द्रिय- सन्निकर्षम्य च तत्र न हेतुता; मानाभावात् । न चैवं - प्रत्यक्षादि- सिद्धमनःसन्निकर्षेणैव चाक्षुषादिनिर्वाह तदन्यथानुपपत्त्या कारणत्वेन - चक्षुरादि न कल्प्येतेति – वाच्यम्, तदन्यथानुपपत्त्या तत्कल्पना- भावेऽपि श्रुत्यादिसिद्धस्य चक्षुरादेर्मनस इव करणत्वस्य विनिगमका 1 कारण-ग. 1
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६६०
दिखावट