सव्याख्यायाम तसिद्धी 'भवानुपपत्तिरिति वाच्यम्; सर्वत्र तत्तदिन्द्रियाधिष्ठानस्यैव द्वारत्वसंभवात् । न चान्तःकरणवृत्तित्वाविशेषादिच्छाद्वेषा- • दिरूपवृत्तयोऽपि देहान्निर्गत्य विषयसंसृष्टा भवन्तीति कथं न स्वीक्रियत इति – वाच्यम्; आवरणाभिभावकतेजस्त्वस्य तत्प्रमापकस्य ज्ञानवत्तत्राभावात् । ननु घटप्रकाशकं चैतन्य S 132 [प्रथमः भावेन स्वीकारात् । अतएव विवरणे चाक्षुषादिकरण त्वेन चक्षुरादे - रनुमानं दूषयित्वा श्रुत्यादिना तत्सिद्धिरुक्ता | तत्तदिन्द्रियेति । स्वाधिष्ठानगोलकमेव तत्तदिन्द्रियाणां स्वकरण मनोवृत्तिनिर्गमे द्वारमिति त्वगिन्द्रियस्य ओषधिवनस्पतयो लोमानि भूत्वा त्वचं प्राविशन्' इति श्रुतेस्त्वगेवाधिष्ठानम्, तत्करणकमनोवृत्तौ द्वारमित्यर्थः । ‘त्वगि- न्द्रियम्य साक्षादाघारो देह' इति विवरणे देहलक्षणोक्तेर्देहव्यापकः पवनविशेषस्त्वगिन्द्रियमिति तार्किका द्युक्तेश्च देह एव वा तदधिष्ठानं, तथेति बोध्यम् । संभवादिति । तत्तदिन्द्रियकरण वृत्तौ तत्तदिन्द्रिय- मनोयोगहेतुत्वस्य सर्वैः स्वीकारात् । तादृशयोगस्य चान्यावच्छेदेनेव विषयसंयुक्तेन्द्रियभागावच्छेदेनापि मनोमहत्वमते विनिगमकाभावेना- वश्यकत्वात् त्वाचवृत्ति प्रति त्वगिन्द्रियस्येव मनसोऽपि सन्निकर्षस्य विनिगमकाभावेन हेतुत्वादिन्द्रिय संयक्तविषयभागावच्छिन्नसंयोग एव मनसो विषये निर्गम इति स्थितेः त्वगिन्द्रियगोलकद्वारा मनोनिर्गमः सम्भवतीति भावः । आवरणाभिभावकतेजस्त्वेनेति । विषय- संयुक्तेन्द्रियसंयुक्तमनस्त्वस्येत्यपि बोध्यम् | तत्प्रमापकस्य । विषय- संसृष्टत्वप्रमापकस्य । ज्ञानवदिति । चाक्षुषादिवृत्तिज्ञानरूपेण परिणत- मनसीवेत्यर्थः । अत्रेदं बोध्यम् - विषयतासम्बन्धेन चाक्षुषादौ चक्षुरादेः सन्निकर्षो हेतुर्न तु मनस इति पररीत्यङ्गीकारेऽपि नास्माकं क्षतिः ; | कारण-ग. 23 करणक-ग. 6
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६६१
दिखावट