130 सव्याख्यायामद्वैतसिद्धौ [ प्रथम: क्षायामपि न त्यागः । न हि पृथिवीत्वगन्धत्वादिना कार्य- कारणभावे आवश्यके अनित्यगुणत्वद्रव्यत्वादिना तत्त्यागः । नेत्यर्थः । न त्याग इति । यद्विशेषयोः कार्यकारणता तत्सामान्ययो- रपीति न्यायात्तमोऽज्ञानान्यतरनिवृत्तौ संयोगादिसम्बन्धेन तेजस्त्वेन हेतु- त्वम् । न चैवमालोकसंयोगे सतीन्द्रिय सन्निकर्षे चासति शाब्दादिवृत्त्या घटादा'वप्यज्ञानसामान्यनिवृत्तिः स्यात्, चक्षुःसन्निकर्षे सत्यालोक- संयोगे चासति तमोनिवृत्तिः स्यादिति – वाच्यम्; विषयत्वं संयोगा- धन्यतमं चेत्युभयसम्बन्धेन वृत्तिज्ञानमज्ञाननाशकं संयोगाद्यन्यतम सम्बन्धेन प्रभा तमोनाशिकेल्यस्यापि स्वीकारात् । अन्यतमत्वं चाखण्डं स्वरूपत एव निवेश्यत इति न गौरवम् । एवं चापरोक्षविषयकशाब्द- वृत्तावपरोक्षत्वजातिनियामक कल्पनं तादृशजातिकल्पनं चाप्रामाणि- कगौरवपराहतम् । नाड्यादिगोचर शाब्दादिवृत्तेर्नाड्यादौ संयोगसत्वे मानाभाव: ; तस्य फलबलकल्प्यत्वान्नाड्यादिविषयकवृत्तिकालेऽन्यत्र मनःस्थितिकल्पनात् । वस्तुतस्तु ऐन्द्रियकवृत्तेर्यत्र विषयत्वं तत्रावच्छे- दकत्वमपि स्वीक्रियते, विनिगमनाविरहेण द्वयोरपि सन्निकर्षादि- कार्यतावच्छेदकसम्बन्धत्वादित्यादेरुक्तत्वात् परोक्षवृत्तेश्च स्वविषयाव- च्छिन्नत्वे मानाभावात् । स्वावच्छेदकावच्छिन्नविषयका ज्ञानत्वसम्बन्धेन वृत्तिज्ञानं हेतुस्तूलाज्ञानवृत्तिप्रतियोगितासम्बन्धेन नाशं प्रत्युच्यते । मूलाज्ञानवृत्तिप्रतियोगितासम्बन्धेन नाशं प्रति तु स्वपरिणा- मिमनःपरिणामित्वसम्बन्धेन विजातीयवृत्तिर्हेतुरित्युक्तम् । न चाप- रोक्षवृत्तेर्घटादिविषयकत्वं विनेच्छादिहेतुत्वासम्भवो विषयतादि सम्ब- न्धेन सन्निकर्षादिकार्यत्वे विनिगमक इति वाच्यम् ; असत्वापाद काज्ञानाभावस्यैव तद्व्यक्तित्वेनेच्छादिहेतुत्वात्, अन्यथा सुखादौ वृत्त्य- वज्ञान-ग.
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६५९
दिखावट