पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रतिकर्मव्यवस्थोपपत्तिः परमाण्वादे वापरोक्षत्वापातादिति चेत्, न; विषयेष्त्रभिव्यक्तचि- दुपरागे न तदाकारत्वमात्रं तन्त्रम् ; परोक्षस्थलेऽपि प्रसङ्गात्, किन्तु तत्संश्लेष:; प्रभाया विषयसन्त्रिकृष्टतेजस्त्वेनावरणाभि- भावकत्वदर्शनातैजसस्य मनसोऽप्यज्ञानरूपावरणाभिभवाय , तत्संश्लेष आवश्यकः, ध्रुवादिदेहमध्यवर्तिपरमाण्वादावतिप्रसङ्गस्तु 'तदाकारत्वप्रयोजकसामग्रीविरहादेव परिहरणीयः, अन्यथा इन्द्रि- यसभिकर्षादे विद्यमानत्वात्परमाणवाद्य कारताया दुर्निवारत्वापत्तेः । तस्मात्प्रभा (वद) विशेषान्वयव्यतिरेकाभ्यां यत्कृतं समिकृष्ट- तेजस्त्वेनावरणाभिभावकत्वम् तस्य तदाकारत्वरूपविशेषापे- वृत्त्यविषयेऽप्यापत्तिर्युज्यत । अपरोक्षत्वापातादिति । ध्रुवाद्याकार- वृत्तेः संयोगादिरूपसंश्लेषम्य तत्रापि सत्वादिति शेषः । उक्तवृतेः 'कज्जलादिसंयोगे मानाभावात्संयुक्त संयोगादे संश्लेषम्यावरणानिवर्तकत्वा- दयुक्तमेतत्परोक्तम् । परन्तु घटाद्या कारवृत्तेः रूपादाविव रसादावपि संयुक्तसमवाया दिसत्वादापरोक्ष्यापत्तिः । न च विषयत्वसमानाधिकरणः संश्लेषो निवर्तकः " सम्बन्ध इति -- वाच्यम्; अपरोक्षवृत्तिविशेषत्वस्यैव निवृत्तितन्त्रत्वौचित्यादिति ध्येयम् । प्रसङ्गादिति । अपरोक्षवृत्ति- विषयता नावरणनिवृत्तौ तन्त्रम् ; वृत्तावपरोक्षत्व जात्यनङ्गीकारस्योक्त- त्वात् शाब्दापरोक्षवृत्तौ तदसम्भवादपरोक्षविषयकत्वस्य चावरण- निवृत्ते: 2 पूर्वमसत्वात् । ननु – विषयत्वसंश्लेषांभयसम्बन्धेन निवर्त- कत्वे विशेषणविशेष्यभावस्याविनिगमत्यागौरवाच लाघवादपरोक्षत्व- जातिं प्रकल्प्य तया वृत्तिर्विषयत्व मात्र सम्बन्धेन निवर्तिकान्तु अपरोक्ष. विषयकशाब्दवृत्तावपि तादृशजातिरननुगत कारणनियम्याम्तु तत्राह- तस्मादिति । सन्निकृष्टतेजस्त्वेनेति । सन्निकर्षसम्बन्धन तजम्त्वं , --- । निवर्तकनावच्छेदक. - ग. "निवांतपूर्व क-ग्व. ग. वनविषयन्त्र - ग. ADVAITA. VoL. II !" 2 - 129 "