पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

128 सव्याख्यायामद्वैतसिद्धौ [ प्रथमः नन्वस्तु चैतन्यस्य विषयप्रकाशकत्वम्, तथाप्यन्तःकरणस्य देहानिर्गतिर्न कल्प्या; परोक्षवैलक्षण्याय विषयस्याभिव्यक्ता. परोक्षचिदुपराग एव वक्तव्यः, चिदुपरागादौ चापरोक्षवृत्ते- स्तदाकारत्वमेव तन्त्रम्; तस्य च तत्संश्लेषं विनापि परोक्षवृत्ते रिव तत्सनिकृष्टकरणजन्यत्वेनैवोपपत्तिः, न तु प्रभाया इव वृत्तेस्तदावरणनिवर्तकत्वादौ तत्संश्लेषस्तन्त्रम्: नेत्रान्निर्गच्छ- युवाद्याकारवृत्येव स्वसंश्लिष्टनेत्रस्थ कज्जलादेध्रुवनेत्रमध्यवर्तिनः 1 षष्ठ्याः प्रपञ्चे ब्रह्मान्यभानाभावेनानुशब्दस्य चानुपपत्तेरिति – चेन्न; अत्र हीदंशब्दस्यापरोक्षार्थवाचकत्वात् सर्वशब्देनापि तादृशयावदर्थो बोध्यते । अथ वेश्वरं प्रति नित्यातीन्द्रियस्यापि भासमानत्वादिदंशब्दो बुद्धिस्थमात्रपरः । उमयथापि सर्वशब्दो न प्रकृतसूर्यादिपरः

इदं-

शब्देनैव तल्लाभे तद्वैय्यर्थ्यापत्तेः । तस्मादिदंशब्दस्य प्रकृतसूर्यादि- परत्वशङ्कानिरासाय सर्वपदमिति मासमानं यावदुभाभ्यां लभ्यते । 'अपि च स्मर्यत' इति सूत्रे तु 'न तद्भासयत' इत्यादिकं 'यदा- दित्यगतमि ' त्यादिकं चोदाहृतम् । तच्च न प्रकृतविरुद्धम् ; आद्येन ब्रह्मणोऽन्याभास्यत्वम् अन्त्येन ब्रह्मण एव भासकत्वं प्रतिपादित - मिति, भामत्यां व्यख्यातत्वात् । शतृप्रत्ययादिकमपि न विरुद्धम्; प्रभां भान्तीमनुभाति घटादिकम् तस्या भासा घटादि भातीतिवदमिं दहन्तमनुदहत्यय इत्यादिवञ्चोपपत्तेः । उक्तं च – ब्रह्मास्ति भातीत्यादौ लकारः साधुत्वार्थ इति ध्येयम् ." लेषमात्रं तस्यास्तदा कारापरोक्षवृत्तेः । संश्लेषस्तन्त्रमिति | संश्लेषः सं- मात्रपदाद्विषयत्वव्यवच्छिन्नसंश्लेषलाभः । तेन कज्जलादौ 1 उभाभ्यां पदाभ्यां -ग.