पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

102 [प्रथमः स्तत्वसम्बन्धसंभावनयाप्यबाधित एवेति । न च - घटस्य ज्ञान - मिति धीसिद्धसम्बन्धसामान्यस्याध्यस्तत्वं न विशेषः, न हि रूप्यस्य शुक्तिरिति प्रतीतिरस्तीति वाच्यम्; रूप्यस्य शुक्ति- रिति प्रतीत्यभावेऽपि रूप्यस्य शुक्तिरधिष्ठानमिति प्रतीत्या अध्य- स्तत्वस्य सम्बन्धविशेषत्वसिद्धेः, चैत्रस्य मैत्र इति प्रतीत्यभावेऽपि चैत्रस्य पिता मैत्र इति प्रतीतिवत । आक्षेप्यमत्र प्रमाणा- सव्याख्यायामद्वैतसिद्धौ पत्त्या दृश्यामिथ्यात्वसिद्धिः, तत्यां च सत्यां मिथ्याप्रतियोगिकत्वेन सम्बन्धम्य मिथ्यात्वसिद्धिरित्यन्योन्याश्रय इति, तन्न; विप्रकृष्ट सम्बन्ध- स्यानुपपत्त्यैव दृश्यतत्सम्बन्धयोर्मिथ्यात्वसिद्धेरुक्तत्वात् । प्रतीत्यभावेऽ- पीति | अपिनाऽध्यासकाले शुक्तित्वस्यावृतत्वान्न तथा प्रतीतिर्ज्ञान- त्वोपहितं तु न दृश्याधिष्ठानमित्यध्यासकालेऽपि ज्ञानं घटस्येति धीर्बाधकाले तु रूप्यस्य शुक्तिरिति धीर्भवत्येव । अतएव इदं रूप्यस्य स्वरूपमिदमो रूप्यं स्वरूपमित्यध्यासकाले रूप्यस्य स्वरूपं शुक्तिरिति बाघकाले प्रतीयत इति सूचितम् । किश्चदं रूप्यत्याधिष्ठानं शुक्ति- रूप्यस्याधिष्ठानमिति सार्वजनीनानुभवेन रूप्यादे श्रम विशेष्यत्वरूपाधिष्ठा- नत्वस्य शुक्तयादौ सिद्धत्वान्मन्मते विशेष्यावच्छिन्नस्य चैतन्यस्य भ्रम- विषयाध्याससम्बन्धस्वीकारादधिष्ठानारोप्ययोरध्यासः सर्वत्र सम्बन्ध इत्याशयेनाह - रूप्यस्येत्यादि । एतेन - घटस्य सम्बन्धो घटस्य संयोग इति सामान्यविशेषरूपाभ्यां पदान्तरं विनैव यथा व्यवहारो न तथा प्रकृते । न वा चैत्रस्य पिता मैत्र इत्यादौ चैत्रमैत्रयोः सम्बन्धः षष्ठ्य- र्थोऽपि तु जनकत्वरूपपितृपदार्थैकदेशे चैत्रम्य निरूपितत्वम् । तथा च रूप्याधिष्ठान मित्यत्रापि भ्रमेऽधिष्ठानत्वघटके रूप्यसम्बन्धो भाति न - चिंत. 1 प्रतीतिज्ञानत्बो-ग. 2 एवमेव सर्वत्र दृइयते शुक्तरूप्यस्येति तु भवितुम् 3 रूप्यस्याधिष्टान क्र. ग. -