पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अनुकूलतर्कनिरूपणम् उभयथाप्यदोषाच्च । तथाहि — सत्यत्वे दृग्दृश्यसम्बन्धानुप- पत्तिः । मिथ्यात्वं च तदुपपादकम्, न तत्सम्बन्धप्रतिकूलम् ; मिथ्यात्वेऽपि शुक्तिरूप्यस्येदमंशेऽध्यस्तत्वरूपसम्बन्धदर्शनेन सम्बन्धसामान्ये प्रतिकूलत्वाभावात् । आक्षेपकोऽपि दृग्विषय- त्वरूपो हकसम्बन्ध एव, अध्यासरूपस्य दृग्विषयत्वस्य ममापि संप्रतिपत्तेः, तात्विकस्यैव तस्य निषेधात् । न चाध्यस्तत्वस्या- द्याप्यसिद्धिः; क्सम्बन्धसामान्यस्याक्षेपकस्य प्रसक्तविशेषनि- षेधेऽप्यध्यस्तत्वरूपविशेषपर्यवसानेनासियभावात् । न हि अध्य- स्तसम्बन्धत्वेनाक्षेपकता, किं तु सम्बन्धत्वेन । स चाध्य- 101 - बिना आक्षेपकस्यानुपपत्तिमाह - सत्यत्व इति । दृदृश्य सत्यत्वे इत्यर्थः । न च – यथा सम्बन्धिसत्यत्वेऽपि मुखादौ दर्पणादिसम्बन्धमात्रं मिथ्या •तथा दृग्दृश्ययोः सत्यत्वेऽपि तत्सम्बन्धमिथ्यात्वमस्त्विति -- वाच्यम्; विप्रकर्षादिना तत्सम्बन्धसंसर्गकप्रतीतेर्भमत्वसिद्धौ सम्बन्धस्येव दृश्य- स्यापि मिथ्यात्वं सिध्यतीति विनिगमकाभावादित्यादेरुक्तत्वादनध्य- स्तसम्बन्धस्य त्वयानङ्गीकारादध्यस्तरूपविशेषपर्यवसन्नः सम्बन्ध आने- पकः । तत्पर्यवसन्नता च नाक्षेपात्पूर्व सम्भवति; आक्षेपकस्यैव सर्वदृश्यमिथ्यात्वसाधकत्वादित्याशङ्कय निषेधति --न चाध्यंस्तत्व- स्येति । सामान्यस्येति । आक्षेपकत्वावच्छेदकेन विप्रकृष्टयोः सम्बन्ध त्वेनाक्षेपकं निश्चितत्वाद्धर्मिणि नासिद्धम् आक्षपात्पूर्वमुक्तविशेषानिश्च- येऽपि तत्सम्भावन/सत्वान्न तदभावनिश्चयो येन सत्यत्वावशेषाभाव - स्यापि निश्चयेन यावद्विशेषाभावनिश्चयात्सम्बन्धसामान्याभावनिश्चयं ब्रूया इति समाधानाभिप्रायः । प्रसक्तेति सत्यत्वरूपेत्यर्थः । सम्बन्ध- त्वेन विप्रकृष्टयोः सम्बन्धत्वेन यत्तु – मिथ्याभूतम्य सम्बन्धस्यानुप- - 1 आक्षेपस्यैव क. ख. ग. 2 निवेशाभाव - ग. 2