पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अनुकूलतर्कनिरूपणम् 79 - , आद्ये तस्याः ब्रह्मण्यध्यस्तत्वेनाज्ञानाज्ञेययोरिव सम्बन्धोपपत्तेः । अत एव श्रवणादिनापि मानसक्रियारूपेण न सम्बन्धानुपपत्तिः । द्वितीये तु अभेदेन सम्बन्धानुपयोगात्तत्सम्बन्धानुपपत्तिर्न दोषाय । अत एव – चरमसाक्षात्कारस्य ब्रह्मण्यध्यस्तत्वात् यदि तद्विषयत्वम् तदा घटसाक्षात्कारस्यापि ब्रह्मण्यध्यस्तत्वात् तद्विषयत्वापत्तिरिति – निरस्तम् ; घटसाक्षात्कारस्य घटाभिव्य- क्तचैतन्यरूपत्वे ब्रह्मण्यनध्यासात्, वृत्तिरूपत्वे तस्याः ब्रह्मण्य- ध्यासेऽपि नाधिष्ठानभूतब्रह्मणो विषयत्वम् ; ब्रह्मविषयताप्रयो- जकस्याध्यासविशेषस्य तत्राभावात् तस्य च फलबलकल्प्य- त्वात् । न हि चरमवृत्तौ ब्रह्माकारतावदत्राऽपि साऽनुभूयते । इच्छेष्यमाणयोस्तु ज्ञानद्वारक एवं सम्बन्ध इति न पृथक्सम्ब- प्यध्यास इति भावः | तस्या इति । तयोर्पाहतचैतन्यम्यापि शुद्धचि त्यध्यस्तत्वाद्ब्रह्म जानामीत्यादिव्यवहार इत्यपि बोध्यम् । अभिव्यक्तयुप- लक्षिताखण्डचिता ब्रह्मणोऽत्यन्तामंदाजानामीत्यादिव्यवहाराविषयत्वाच्चा- सम्बन्धो न दोप!येत्याह - द्वितीय इति । अध्यास विशेषस्य- अहं ब्रह्मत्यादिवाक्यघटनशाब्दघी सामग्री जन्यवृत्तिनिष्ठस्य ब्रह्मतादात्म्य - स्य । तथा च तादृशसामप्रयेव शुद्धब्रह्माकारतायां वृत्तिनिष्ठायां निया- मिकेति भावः । फलवलंति – यादृशसामग्रीजन्यवृत्तेरज्ञाननिवृत्त्यादि- फलं दृश्यते तम्या एव तत्वं कल्प्यत इति भावः । अनुभवबलमप्याह- न हीत्यादि । ब्रह्म साक्षात्करांमीत्यनुभवो घटादिवृत्तो नत्यर्थः । अवि- प्रकर्षस्य सम्बन्धव्यापकत्वं इच्छायाः स्वविषयण सम्बन्धो न स्यात्ततो विप्रकृष्टेऽपि विषये इच्छाया इव ज्ञानम्यापि सम्बन्ध इति परस्पर- पूर्वमाशङ्कितं प्रतियोगिध्वंसादिन्यायन परिहृतमपि प्रकारान्तरेण परि हरति - इच्छेष्यमाणयोरिति । ज्ञानद्वारक इति । स्वापधायकज्ञान- । -1 -