सव्याख्यायामद्वैतसिद्धौ [प्रथमः , न्धोऽस्त्विति वाच्यम्; परस्पराध्यासात्मक सम्बन्धासम्भवेनैव सम्बन्धान्तरकल्पनात् तत्सम्भवे तस्यैव सम्बन्धत्वात् । न चाज्ञानविषयस्य ब्रह्मणो विषयिण्यज्ञानेऽनध्यासेन विषयस्य विषयिण्यध्यासनियमो न सिद्ध इति वाच्यम्; एवं नियमा नभ्युपगमात्, किंतु ज्ञानाज्ञानयोरध्यास एव विषयेण सम्बन्धः | सच ज्ञाने ज्ञेयस्य अज्ञेये चाज्ञानस्याध्यासादुपपद्यते । अत एवा- ध्यासिकसम्बन्धव्यतिरेकप्रदर्शने अज्ञानस्याज्ञेयेनेत्यनुदाहरणम् । ननु श्रवणादीनां चरमसाक्षात्कारान्तानां स्वविषयेण ब्रह्मणा सम्बन्धानुषपत्तिः, न हि श्रवणादौ साक्षात्कारे वा ब्रह्माऽध्यस्त- मिति - चेन्न; साक्षात्कारो हि वृत्तिर्वा, तदभिव्यक्तचैतन्यं वा । भावीयः, चैत्रो गोमान्, इत्यादावपि घटचैत्रादर्विशेष्यत्वम्, तदवच्छे देन प्रतियोगितास्वामित्वाद्यध्यासादित्यभिप्रेत्याह – परस्पराध्यासात्म- केति । विशेष्यविशेषणयोः परम्परावच्छिन्नमिथ्यातादात्म्यात्मकेत्यर्थः ॥ -- , ज्ञानाज्ञानयोरिति । इच्छा देविषयेऽध्यासो न सम्बन्ध इति विषये विषयिणोऽध्यासः सम्बन्ध इति नोक्तम् । अध्यास इति । अधिष्ठानारोप्यगतः सम्बन्ध इत्यर्थः स च तादात्म्यं घटो ज्ञातो घटः स्फुरतीत्यादिसामानाधिकरण्यानुभवात् ज्ञानाज्ञानयोर्विषयं प्रत्यधि- ष्ठानारोप्यान्यतरत्वमिति पर्यवसितार्थः । अज्ञानतद्विषयशुद्धचितोर्न परस्परावच्छेदेनाध्यासोऽननुभवात् । कार्याध्यासस्थल एव तथा स्वी- कारात् । अन्यथा अवच्छेद की भूतचित्सम्बन्धरूपविशेष्यताशालित्वे- नाज्ञानाध्यासस्य सविकल्पकतापत्त्या सुषुप्तानुभवत्वहान्यापत्तेः, अतो ज्ञानाज्ञानयोः परस्पराध्यासो नोक्तमिति ध्येयम् । स्वप्रकाश चैतन्ये आवश्काज्ञानस्यानुपपन्नत्वात् ज्ञेयान्तर इवाज्ञानेऽपि दृश्यत्वे तत्रापि दृश्यत्वमित्येवमनवस्था । ‘अतश्चाज्ञाने दृश्यत्वानुपपत्तेरज्ञानचित्सम्बन्धोऽ- विषयेणेति -ग. 2 ततश्चा- ग. 1 78
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६०७
दिखावट