पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

80 सव्याख्यायामद्वैतसिद्धौ [प्रथमेः न्धापेक्षा । न च – ज्ञाने सन्त्रिकर्षाधीनस्येव स्मृतावनुभवाधीन- स्येवेच्छायां ज्ञानाधीनस्य विषय सम्बन्धस्यानुभवात् सन्निकर्षा- दिभ्यो भिन्न इव ज्ञानाद्भिन्न एव सम्बन्धो वक्तव्य इति - वाच्यम्; सम्बन्धानुभवस्य ज्ञानद्वारकसम्बन्धेनाप्युपपत्तेरति- रिक्तसम्बन्धकल्पने मानाभावात्, ज्ञानाधीनसम्बन्धान्तरस्यान- नुभवात् । ज्ञाने विन्द्रिय सन्निकर्षादिना न सम्बन्धानुभवोप- पत्तिः ; इन्द्रियसन्निकर्षादीनामतीन्द्रियत्वेन तेषामनुमित्यादिना उपस्थितिं विनैव घटज्ञानमित्यादिसम्बन्धानुभवात् । स्मृतौ तु अनुभवाधीनसम्बन्धस्य शव नास्ति; अनुभवस्य तदानीम- -- 2 3 विषयत्वरूप इत्यर्थः । तथा च नेच्छासम्बन्धो दृष्टान्तो ज्ञानसम्बन्ध- स्यैव तत्वादिति भावः । ज्ञानाद्भिन्नो ज्ञानाघटित । नन्वेवं-ज्ञान- स्याप्युपधायकसन्निकर्षादिद्वारकः सम्बन्धोऽस्तु, नाध्यासिकतादात्म्यं तत्राह - ज्ञाने त्वित्यादि । ज्ञानेन्द्रिय सन्निकर्षादिघटितस्य विषय- सम्बन्धस्यानुभवो न सम्भवतीत्यर्थः । इन्द्रियसन्निकर्षादिघटितस्य सम्बन्धस्य केवलस्य साक्षियोग्यत्वात् ज्ञातत्वाज्ञातत्वाभ्यां साक्षि भास्यता सम्भवति, न तु घटसम्बन्धिज्ञानवानहमित्येवं रूपेण ताभ्यां विनेत्याशयेनाह – इन्द्रियसन्निकर्षादीनामिति । अनुमित्यादिनेति । आदिना प्रत्यक्षादिसङ्ग्रहः । प्रत्यक्षेणोपस्थित्यभावे हेतु: + अतीन्द्रिय- त्वेनेति । व्याप्तिज्ञानाद्यभावस्याप्युपलक्षणम् । उपस्थितिमिति । ज्ञाततामित्यर्थः । अज्ञाततां विनेत्युपलक्ष्यते । सम्बन्धति | घटादि सम्बन्धिज्ञानेत्यर्थः । अनुभवाधीनसम्बन्धस्य अनुभवद्वारकसम्ब- न्धस्य स्वोपधायकानुभवविषयत्वस्येति यावत् । असत्वादिति । 4 1 ज्ञाने इन्द्रिय - ग. " केवलसाक्षि-ग. त्वज्ञातत्वाभ्यां -ग. हेतुः- क. ख. + भावो