पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

● परिच्छेदः] अनुकूलतर्कनिरूपणम्

अन्यथा जलादौ गन्धादिसंशये तयापकतया पृथिवीत्वादेरनिश्चयेन तदभावेन तत्र गन्धाद्यभावसिद्धिर्न स्यात् । सपत्नीनां सम्बन्धस्य संयोगस्य सत्वे विप्रकर्षाभावोऽस्त्येव' । गोगामेदादीनां च सम्बन्धो नास्त्येव । अत एव ध्वंसादे प्रतियोग्यादिना न सम्बन्ध इत्यादि बक्ष्यते । न चाविप्रकर्षसत्वेऽपि सम्बन्धाभावात् सम्बन्धवि प्रकर्षयो- वक्ष्यमाणं समव्यापकत्वं व्याहतमिति -- वाच्यम्; अविप्रकर्षे सति सम्बन्धस्यावश्यकत्वात् । न हि समानदेशत्वादिकमविप्रकर्षः ; एक- द्वीपवर्तिनां भिन्नकालीनानां मिथः सम्बन्धापत्तेः ॥ 71 , नन्वेवं --- सम्बन्धसामान्यं नाऽविप्रकर्षः ; परम्परासम्बन्धस्य निश्चयात् साक्षात्सम्बन्धस्य सन्दिग्धत्वात्तदमावेनानिश्चितेन सम्बन्धा- भावसिद्ध्यसम्भवात् ; अत एव साक्षात्सम्बन्धोऽपि न सः । तथाच तदभावेनासम्बन्धसिद्धयुक्तिरयुक्तेति चन्न; तदीयायां कालिकसम्बन्धे- नाधिकरणतायामवच्छेदकत्वं हि तदविप्रकस्तदीय साक्षात्सम्बन्धव्या- पकः, तदभावश्च ज्ञानज्ञेयादिस्थळे निश्चितः । तथाहि – यदवच्छेदन कालिक सम्बन्धेन यद्वत्ताऽनुभूयन तंत्रैव तुम्य देशिकसाक्षात्सम्बन्षोऽ- प्यनुभूयते । अत एव मूतलकपालाद्यवच्छंदन घटादिकालिकाधिकरण- त्वानुभवात्तत्रैव संयोगादिम्तादृशः सम्बन्धोऽङ्गीक्रियते, न तु मेरुवि- न्ध्ययोः । अन्यथा ज्ञानातीतादिविषययोरिव तयोराप तादृशसम्बन्धं किं न रोचयेः । यथा च तयारकावच्छेदनापरम्य न कालिकाधिकरण - त्वम्, तथा अतीतादिविषयावच्छेदेन ज्ञानम्य प्रतियोग्यवच्छेदेन ध्वंसस्य स्वाम्याद्यवच्छेदन गवांदेरपीत्यतीतादौ तादृशावच्छेदकत्वा- भावनिश्चयन तादृशसम्बन्धाभावसिद्धिः । किञ्च यथा अतीतादिकं न ज्ञानादिमत्वे कालिकेऽवच्छेदकम् ज्ञानाद्यधिकरणकालासम्बन्धात्, तथा अतीतादिनिष्ठम्य ज्ञानादिसम्बन्धम्य ज्ञानादिमत्काला नावच्छेदकः, 1 प्यस्त्येव-ग. 2 सम्बन्धविप्र - क.ग. ---