पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

72 सव्याख्यायामद्वैतसिद्धौ [प्रथमः

स्य व्यापकानुपलब्ध्या बाधात् । तथा हि - तात्विक सम्बन्धस्य व्यापको देशकालावप्रकर्षाभावः । स चातीतादिविषयकज्ञाना- दीनां नास्त्येवेति कथं तात्विकस्तेषां सम्बन्धः । न च--- समवायवत् सम्बन्ध्यभाववि प्रकर्षाद्यविरुद्धत्वेनैव तत्सिद्धि- अतीताद्यसम्बन्धात् । न ह्यवच्छेद्याधिकरणासम्बद्धमप्यवच्छेदकम्, न वा घटत्वादिसम्बन्ध इव स कालान वच्छिन्नः इदानीमेव तज्ज्ञान- मिति प्रतीतेः । ज्ञानत्वाज्ञानत्व' योर्विरुद्धयोः कालभेदावच्छेदेनैवोप- पाद्यत्वाच्च । तथाच ज्ञानादिमत्कालावच्छिन्नसम्बन्धसामान्याभावेन ज्ञानादिसम्बन्धाभावः सिध्यति । यो हि यत्सम्बन्धवान् स तद्वत्कालाव- च्छिन्नसम्बन्धवान् यथा भूतलादिकं घटादिसंयुक्तं घटादिकालाव- च्छिन्नघटादिसम्बन्धकम् । भिन्नकालीनयोर्ज्ञानज्ञेयादिभिन्नयोरपि सम्ब- न्धापत्तिर्विपक्ष बाघिका । न च – विषयताद्यन्यसम्बन्धमन्तर्भाव्यैवो- क्तनियमः, अन्यथा व्यभिचारापत्तिरिति - वाच्यम्; विषयतादिसम्ब- न्धस्य विप्रतिपन्नत्वेन व्यभिचारसंशयस्य सम्भवप्युक्तव्यापकताग्राहक- तर्केण तदुच्छेदात् । न चातीतादे: सूक्ष्मरूपेण सत्वात्तत्र ज्ञानादि- सम्बन्धसम्भव इति–वाच्यम्; सूक्ष्मावस्थाया अतीतादिव्यक्तयत्यन्ताभेदे ज्ञानादिसमकालीनत्वासम्भवात्तद्भेदस्यापि वाच्यत्वेन अतीतादेर्ज्ञानभि- नकालीनत्वं तदवस्थमेव, ज्ञानज्ञेययोरपि सम्बन्धासम्भवात् । न च ---- विषयीभूतसूक्ष्मरूपतादात्म्यादतीतस्यापि विषयत्वकार्यमिति – वाच्यम् । विद्यमानघटादिज्ञानान्न" ध्वंसप्रागवस्थासु विषयत्वकार्यापत्तेः । सूक्ष्म- स्थूलावस्थयोराप भिन्नकालीनत्वेन मिथ्यातादात्म्यस्यैव वाच्यत्वेन ज्ञाना तीतादिज्ञेययोरेव साक्षात्तस्य वरत्वादिति दिक् || समवायवदिति । यथा समवायस्यैकत्वपक्षे 2 ज्ञातत्वाज्ञातत्वयोः–क.ख.ग. , 1 सकलान- ख. ग. श्यामत्वाद्यभाव- 3 जानात्तस-ग.