पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] 39 दवादिप्रयोगे तार्किकाद्यङ्गीकृतस्य भिन्नत्वस्य सिद्धावपि उद्दे- श्यप्रतीत्यसिद्धेः यथा न सिद्धसाधनं तथा प्रकृतेऽपि मिळि- तरततिरुद्देश्यत्वात्र सिद्धसाधनम् । यथा तत्वाभेदे घटः कुम्भ इति सामानाधिकरण्यप्रतीतेरदर्शनेन मिळितसिद्धिरुद्देश्या तथा प्रकृतेऽपि सत्त्वरहिते तुच्छे दृश्यत्वादर्शनेन मिलितस्य प्रपञ्चमिथ्यात्वानरूपणम् वाच्यम् । घटादिना अनवच्छिन्नस्य तदुपादानकपालादिनिष्ठस्य सत्सम्बन्धस्यैव घटादाववच्छेदकत्वमित्युक्तत्वात् । अन्यथा अधिकरणस्य सतोऽवच्छेदकत्वासम्भवात् । किंचाविद्याद्यनाढिद्रश्य सतोरखच्छेद्याव- च्छेदकत्वस्य कथमपि विरहात् तत्र विशिष्टबुद्धः तथापि निर्वाहः । तत्र हि घटादिनिष्ठसत्सम्बन्धं प्रति अवच्छेदकत्वात् सत्प्रत्यवच्छेदक - त्वमज्ञानस्य शङ्कितुं शक्यम् । सतोऽवच्छेद्यघटकत्वात् । अज्ञानं प्रति तु सतोऽवच्छेदकत्वं शङ्कितुमप्यशक्यम्, द्वितीय मिथ्यात्वलक्षणे वक्ष्यमणरीत्या सत्सम्बन्धस्य कस्याप्यज्ञानं प्रत्यनवच्छेदकत्वेन अव- च्छेदकघटकत्वस्य सति दूरापास्तत्वात् । अत एव सद्विशेष्यकाज्ञान- प्रकारकधीवृत्तिरूपा न तु चिद्रूपेति तत्र बक्ष्यते । यदि च तत्रैव वक्ष्यमाणं सत्सम्बन्धस्याज्ञानावच्छेदकत्वपक्षमालम्बसे तदा सतोऽधि- करणत्वादेव नावच्छेदकत्वमित्येव गतिः । तस्मादभिन्नसत्तासमानाधि- करणबुद्धिविषयः सम्बन्ध इति वृद्धोक्तेरभिन्ना सत्ता यत इति व्युत्पत्त्या तदात्मता तत्र सम्बन्ध इत्येवार्थः । अस्तु वा अवच्छिन्नसत्तैव तादात्म्याश्रयः अवच्छिन्नसत्ता सतीत्यत्र तु तादात्म्यं सदित्येव विशेष्य- मेव सम्बन्धः । यथाच घटतादात्म्यप्रतियोगिता नीलत्वादिनैवाच्छिद्यते न तु रूपत्वादिना, घटो रूपमित्यप्रत्ययात्; तथा रूपतादात्म्यप्रति- योगिता घटगुणत्वादिना अवच्छिद्यते, रूपं घटगुण इति प्रत्ययात्; न तु रसत्वादिना रूपं रस इत्यप्रत्ययादिति दिक् । मिळितस्य