पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

38 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकार्या [ प्रथमः अपिच तद्रूपस्य तट इव तदीयरसादावपि कुतो न प्रमा तत्र तत्सत्ताव्यक्तित्वेन न सम्बन्धताप्रतीत्यभावादिति चेन्न; प्रतीतेरेवा- पाद्यत्वात् । कदाचिद्दोषात्तदुत्पत्तेः तद्रसो न नील इत्यस्य भ्रमत्वा- पत्तेश्च । एवं सन्मनः सद्भुतलमित्यादिवत् सुखं मनो घटो भूतल मित्याद्यपि स्यात् । सिद्धान्ते वृत्तिरूपेण परिणतमनसो घटादेश्य मेळने तदुपहितसत्तयोरिव मिळितभूतलघटाद्युपहितसत्तयोरैक्यावश्यकत्वात् । एवं घंटो मन इत्याद्यपि आपादनीयं, मन्मते तद्रसावच्छेदेन तद्रूपता- - दात्म्यानङ्गीकारात् सुखाद्यवच्छेदेन मनआधेयता संसर्गाध्यासस्यैव स्वी- कारेण मनआदितादात्म्याभावात् मनःपरिणामत्वादिरूपेण सुखादौ मनआदितादात्म्याध्यासस्वीकारात् । मनःपरिणामो मन एवेत्यादिव्यव- हारस्य ' एतत्सर्वं मन एव' इत्यादि श्रुतेश्वोपपत्तेः । अथ तादात्म्यं स्वरूपसम्बन्धेन स्वाश्रये सम्बन्धो नावच्छेदकत्वेनेति न घटादौ कपालादेस्तादात्म्यं सम्बन्ध इति चेन्न, अविनिगम्यत्वात् । कपालादि- कार्यत्वस्य घटादा प्रतिबन्धकधीविषयत्वस्य च नीलो घट इत्यादौ तादात्म्येनैव वाच्यत्वात् । सत्कार्यत्वस्य सन् 'घट इत्यादिप्रतिबन्धक- धीविषयत्वस्य च तादात्म्येनैव क्लृप्तत्वात् । न च कपालादिकं प्रति तत्तादात्म्यं प्रतीव घटादेवच्छेदकत्वादवच्छेदकत्वमेवास्तु तादा- त्म्यस्थानीयमिति वाच्यं; परस्पराध्यासानुरोधेन घटादेः कपालादि- तादात्म्यं प्रत्यवच्छेदकत्वेऽपि कपालादिकं प्रति अवच्छेदकत्वे मानाभावात् । सद्धटाद्योर्मिथो विशिष्टबुद्धय़निर्वाहाच्च । घटादेः सत्स- म्वधावच्छेदकत्वेऽपि सद्रपाधिकरणं प्रत्यनवच्छेदकत्वात् सत्सम्ब- न्धस्य घटादाववच्छेदकत्वेऽपि सतो नावच्छेदकत्वं, किन्तु अव- च्छेदकतावच्छेदकत्वं, घटादिस्तु चिद्भास्यतानियामकः चिन्निष्ठः स्वसम्बन्ध इव सत्सम्बन्धे अवच्छेदक बाधकाभावात् । न चाव- च्छिन्नस्य सत्सम्बन्धस्यावच्छेदकत्वासम्भवात् सदेवावच्छेदकामिति ·