पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] 9 , चेन्न, अवच्छिन्नसत्तात्वापेक्षया महासत्ताव्यक्तितादात्म्यवत् सत्तात्वस्य गुरुत्वेन अनवच्छेदकत्वादप्रसिद्धिः । अथायं घट इत्यादौ घटत्वा- दिजातेरिव महासत्ताया अपि स्वरूपत एव निवेश: न तु तद्व्यक्ति- त्वेन; तथाच महासत्तातादात्म्यमवच्छेदकतानिरूपकत्वरूपेणावच्छि- नत्वेन सममिति चेत् तथापि घटः कपाल इत्यादौ तत्कपाल- त्वादिघटितं घटस्सन्नयं घट इत्यादौ च विशेषणस्वरूपमात्रघटित- मिति सर्वत्र विशेषणस्य तद्व्यक्तित्वेनाघटकत्वात् । सम्बन्धवैरूप्यं गुरोरवच्छेदकत्वस्य वैरूप्यस्य वा अङ्गीकारेऽपि अवच्छिन्नसत्ता सतीति न स्यात्; अवाच्छन्नसत्ताया मवच्छिन्नसत्तान्तराभावात् । अथावच्छेि- न्नसत्ता स्वास्मिन्नपि सम्बन्ध इति चेन्न; सम्बन्धान्तरसम्भवे तस्या एव तस्यास्सम्बन्धत्वस्यायुक्तत्वात् महासत्तातादात्म्यस्यावच्छिन्नसत्ता- यामावश्यकत्वात् चिद्रूपमहासत्तायाश्चेत्यमात्रे तादात्म्यस्य त्वयाऽपि वाच्यत्वात् । अन्यथा तत्तद्विशेषणतादात्म्यवत् सत्तेत्यादिपूर्वोक्तास- ङ्गते: वैरूप्यभङ्गस्य सर्वत्र कल्पिततादात्म्यसम्बन्धत्वाङ्गकारणापि सम्भवात् । अथ कपालघटायोः तादात्म्यं न क्लृप्तम् । अवच्छि- न्नसत्ता तु क्लृप्तेति चेन्न; कपालाद्यवच्छिन्नचिति घटादेः घटाद्यव- च्छिन्नचिंति कपालादेश्च तादात्म्यस्याप्यन्योन्या : यासानुरोधेन क्लृप्त- त्वात् । तस्य च स्वरूपसम्बन्धेन चितीवावच्छेदकतया घटादावपि सत्त्वात् । एतेनावच्छिन्नसत्तायाः तद्व्यक्तित्वेन सर्वत्र सम्बन्धत्वान्न वैरूप्यमित्यपास्तम् । सत्तादात्म्यं सदिति तु सत्तादात्म्यं सत्सदित्या- दिवत् नाम्नुपेयते । किंचोतरूपत्वादिना कारणत्वादे: नीलो घट इत्याकारकधीत्वादिना प्रतिबन्धकत्वादेश्वासम्भवः । एकजातीयसम्ब- न्धासम्भवात् । मन्मते च तादात्म्यत्वरूपाखण्डधर्माङ्गीकारेण तत्सम्भ- वात् । न च स धर्मोऽवच्छिन्नसत्तायामेवेति वाच्यम् । अवच्छिन्न- सत्तायाः स्वासम्भवेन अवच्छिन्नसत्ता सतीति प्रतीत्यसम्भवस्यो तत्वात् । प्रपञ्चमिथ्यात्वनिरूपणम् 37