पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

36 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः 66 - ु " न चैवं भेदाभेद: " इत्यनेन तन्मतमापाद्य अवच्छेदकभेदन स्वमते तन्मतवैलक्षण्यस्योक्तत्वाच्चेति चेन्न । सामान्यतो विरोघेऽपि हि अव्याप्यवृत्तिस्थले अवच्छेदकभेदेनेव प्रकृते तदभेदेनापि तयोरेकत्र सम्भवः, धीबलस्याविशेषात् । तदुक्तं भामत्यां – “ विरुद्धमिति नः क्व सम्प्रत्ययो यन्न प्रामाणिकम् " इति । तदेतत्सर्वं सिद्धान्ते अनुकूलम् । परं तु एकत्र शुक्तिरजतत्वयोः प्रतीतिसत्वेऽपि तद्वला- बलपरीक्षया तदुचिततत्सत्ताभ्युपगमात् भेदाभेदावपि भिन्नसत्ताकौ तत्राप्यभेदसम्बन्धत्वाद्यन्यथानुपपत्त्यैव भेदस्य कल्प्यत्वात् व्यावहार- दशायामेव विशेषदर्शनबाध्यत्वाच्च । भेदः प्रातिभासिक, तदुप- जीव्योऽभेदो व्यावहारिकः । न च कार्यकारणभाव एव भेदोपजीव्य इति वाच्यम् । स एव तथेत्यपरिविशेषात्, कार्यकारणभावस्यापि प्रतीय- मानतादात्म्यघटितान्वयव्यतिरेकग्रहोपजविकत्वात् सांख्यादिमते वक्ष्य- माणरत्या तस्यैवाभावाच । अत एवाभेदोपादानाभेदकल्पनेति भाम- त्यामभेदस्योपजीव्यत्वेनोपादानमस्याम् । सा तथा । अत एव ब्रह्मप्रपञ्च- योरपि भेदाभेदौ । तथैवोक्तं परिमळादौ । यत्त भिन्नयोरभिन्नसत्ता- कत्वमेव सिद्धान्ते सामानाधिकरण्यधीमात्रविषयः गुणगुण्याद्योर्मिळि- तत्वेन स्वोपहितसत्ताभेदकत्वाभावादित्याश्रमस्वाम्यादिभिरुक्तम्, तत्रेदं चिन्त्यम् – सत्ताप्रतियोगिकभेदशून्यत्वं न कुत्रापि सत्तायामिति तत्प्र- बेशे अप्रसिद्धिः । घटपटाद्यवच्छिन्न सर्वसत्तानुगतसत्तात्वावच्छिन्नभेद- शून्यत्वं कपालतन्त्वाद्यवच्छिन्नसत्तास्वस्तीति तत्प्रवेशे पटः कपाल इत्या- दिव्यवहारापत्तिः । तत्कपालादिरूपविशेषणीभूतव्यक्तितादात्म्यवत् सत्ता- त्वावच्छिन्नभेदशून्यसत्तायाः विषयत्वे घटस्सन्नित्यादौ तदसम्भवः, विशेषणीभूतमहासत्तायां सम्बन्धत्वेन वाच्यायां तस्यामेव तादात्म्या- भावात् घटावच्छिन्नसतातो भेदसत्त्वाच्च । अथ घटायवच्छिन्नं सत्त्व- मेव तत्र घटादौ महासत्तायाः सम्बन्धः न तु स्वात्यन्ताभिन्ना सैवेति