पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] तदुक्तं शारीरकसंक्षेपे प्रपञ्चमिथ्यात्वनिरूपणम् 35 अविरुद्ध विशेषणद्वये प्रभवत्वेऽपि विशिष्टयोर्द्वयोः । घटते न यदैकता तदा सुतरां तद्विपरीतरूपयोः ॥ - 2 इति । एकता - अभेदः' । यत्तु भिन्नाभ्यामेकधर्मिबोधकत्वरूपशाब्दसामा- नाधिकरण्यघटितहेतुना भेदाभेदसिद्धिरिति परिमळादावुक्तं तस्याप्युक्त- रीतौ तात्पर्यम् । यथाश्रुते भेदसिद्धे: पूर्वमुक्त हेतोरसिद्धेः भेदांश- साधकतर्कानुत्थापकत्वेन अप्रयोजकत्वाच्च । ननु भेदाभेदयोरेकत्र युगपन्न ग्रहणं तद्धियोर्मिथो विरोधित्वात् युगपदुभयानुभवबलाद्गुणगुण्या दस्थले तदनङ्गीकारे प्रथमोक्तहेत्वसिद्धिः । न चैकस्यैवैकदा ग्रहणं अविनिंग - म्यत्वात् ; द्वयोः ग्राहकसन्निकर्षाद्यविशेषात् । सामानाधिकरण्यप्रत्यये व्यक्त्योर्भेदाभेदौ चकास्त इत्यादिभामतीविरोधाचेति चेन्न । प्रत्यक्षे मिथस्समानाधिकरणत्वेन तयोः युगपद्धानेऽप्यन्यतरविरोधितया एक- तरस्य शाब्दादिबुद्धेः प्रतिबन्ध कत्वसम्भवात् । एकांशधीप्रतिबन्ध- कदोषसत्त्वे तद्विरोधितया अन्यांशप्रत्यक्षेऽपि तत्सम्भवात् । अन्य- तरसमानाधिकरणत्वेन अज्ञायमानतद्विषयकज्ञानत्वमेव तद्विरोधितया तज्ज्ञानत्वम् । तेन न प्रमात्वघटितहेत्वसिद्धिः अव्याप्यवृत्तिस्थले सर्वैरपि तथा वाच्यत्वात् । भामत्युक्तिरसति दोषे । अत एवात्यन्ता - भेदे अन्यतरस्य भामत्यां द्विश्वभासमात्रं दूषणमुक्तम् । न तु भेदानुभवविरोधः, भेदानुभवस्य त्वन्मतेऽप्यसार्वत्रिकत्वात् । अन्य- तरस्याभिन्नस्य धर्मिणो द्वाभ्यां रूपाभ्यामवभासमात्रं न त्वेकरूपावछिन्ने अपररूपावच्छिन्नस्य विशिष्टधी अत्यन्ताभेदे सम्बन्धासम्भवादिति तदर्थः । अथैवमपि भावाभावावेकत्र कथम् ? नचावच्छेदकभेदेनैव तौ साध्याविति वामम्, एकावच्छेदेन तत्साधकयुक्तेरेवोक्तत्वात् । भामत्यादौ तन्मतस्य विरोषोक्तया दूषणासङ्गतेः । मणिकौररपि 1 अत्यन्ताभेदः. 2 अभेदसिद्धेः. , 3*