पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः रतावच्छेदकतानवच्छेदकरूपावच्छिन्नत्वसम्बन्धेन गुण्याद्यंशे प्रमाप्रका- रत्वात् । तथाच यो यदवच्छिन्नविशेष्यतानिरूपितोक्तरूपावच्छिन्नसं- सर्गतानिरूपितप्रमाप्रकारतावच्छेदकः स तदवच्छिन्नानुयोगिताकभेदा- भेदोभयप्रतियोगितावच्छेदक इति व्याप्तिः । न चाप्रयोजकत्वं, नीलो घट इत्यादावाधारतावच्छेदकतानवच्छेद करूपेणैव सम्बन्धस्योक्त युक्तिभिस्सिद्ध्या तादात्म्यजातीयस्य घटो द्रव्यमित्यादौ क्लृप्तस्य ताहशत्वेन उपपत्तावतिरिक्तसमवायकल्पने गौरवात् । गुणादीत्यादिना क्रियावयवजातिविशिष्टांशानां गुण्यादत्यिादिना च तद्वतां ग्रहणम् । न च कुण्डलत्वादेः कनकत्वाद्यवाच्छन्नप्रतियोगिताकभेदाभेदानुयोगि तावच्छेदकत्वे- 34 कार्यात्मना तु नानात्वमभेद: कारणात्मना । हेमात्मना यथाऽभेदः कुण्डलाद्यात्मना भिदा || इति भामत्युक्तभेदाभेदवादिकारिकया कारणतावच्छेदकरूपेणाभेद- स्यैव कार्यतावच्छेदकरूपेण भेदस्यैवोक्तया विरोध इति वाच्यम्, तया कटककुण्डलयोः कटकत्वकुण्डलत्वाभ्यामत्यन्तभेदः कटकत्व- कनकत्वाभ्यां तु भेदाभेदावित्यस्मदनुकूलस्यैवोक्तत्वात् । तथाहि-कार्या- त्मना तु कटकत्वकुण्डलत्वादिरूपैः कार्यमात्रधर्मैरेव नानात्वं, कार- णात्मना- कारणगतधर्मेण । कार्यात्मना त्वित्यनुषज्यते अभेदोऽपि । तथाच कारणगतधर्मकार्यमात्रगतधर्माभ्यां तु अभेदोपीत्यर्थ इति व्याख्या संभवति । भेदाभेदवादिना त्रिदण्ड्यादिना ब्रह्मरूपज्ञानप्रपञ्चरूपज्ञेय - योरभेदोक्तेर्व्यभिचार: ' । व्यभिचारादिस्तु न सम्बन्धः | संबन्धोपि न घूमादिप्रकारताबड्यादिविशेप्यताभ्यां निरूपितसांसर्गिकविषयताकः । दृष्टान्तस्तु पूर्ववत् | येन द्रव्यत्वघटत्वाभ्यां न भेद उच्यते तं प्रत्यु- क्तयुक्तिभिः तस्य प्रसाध्यत्वात् । 1 1 न व्यभिचारः.