पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रपञ्चमिथ्यात्वनिरूपणम् 33 , मिथो विशिष्टप्रमा तेन तद्धटस्तद्धटीय इति प्रमापत्तितादवस्थ्यं तत्सं- योगस्य तद्धटप्रतियोग्यनुयोगित्वासत्त्वात् । तयोस्तदतिरिक्तत्वकल्पने च गौरवम् । मन्मते द्रव्यत्वघटत्वादिभ्यां भेदस्य कल्प्यत्वे यः भूतलघटयोः' भेदः कॢप्तः स एव । न च तत्सबन्धीया तदभिन्ना या प्रतियोगिता तन्निरूपितानुयोगितारूपे तत्संबन्धेन तत्प्रकारकधीत्वं तत्संबन्धेन तत्प्रमात्वं पटात्मकप्रतियोगितानिरूपितानुयोगितारूपे तछूटे स्वप्रमात्ववारणाय तदभिन्नेति तत्तद्विशेषणाभिन्नपरमिति वाच्यम्, तथापि हि द्रव्यं घट इति धीरिव द्रव्यं द्रव्यमिति धीरपि प्रमा स्यात् । द्रव्याभिन्नघट।त्मकप्रतियोगितानिरूपितानुयोगिताया द्रव्यस्वरूपत्वात् । न हि मन्मत इव त्वन्मते द्रव्यघटयोर्भेदः, त्वयौपाधिकभेदास्वीका- रात् । नं च द्रव्यत्वघटत्वादिभ्यां भेदप्रतियोग्यनुयोगिभावोऽपि त्वन्मते अतिरिक्तः कल्प्यत इति गौरवमिति वाच्यम्, त्वन्मते सर्वत्र प्रति- योगित्वानुयोगित्वयोः अतिरिक्तयोः कल्प्यत्वात् भेदप्रतियोगितानु- योगितयोः स्वावच्छेदकधर्मस्वरूपत्वाच्च । नच मन्मतेऽपि यत्र स्वाभा- विको मेदस्तत्र भेदेनैव निर्वाहः यत्र तु द्रव्यत्वघटत्वादिभ्यां औपा- घिको भेदस्त्वयोच्यते तत्रैवातिरिक्तयोस्तयोः कल्प्यत्वमिति वाच्यम् । एवं सति तद्धटः तद्धटीय इत्यादिधीप्रमात्वं तद्धटधीभिन्नवृत्तिसंयोगादि- घटितम् तादात्म्येन प्रमात्वं तु सम्बन्धप्रतियोग्यनुयोगित्वघटितमिति वैरूप्यं स्यात् । तत्प्रतियोगिक भेदेति नाम विहाय तत्प्रतियोगिता- निरूपितसम्बन्धानुयोगितेति नाम त्वया कृतमिति पर्यवसानाच्च । एतदभिप्रायेणैव 'यथा च तत्राभेदः' इत्यादि वक्ष्यति । तस्माद्य- योरभेदसम्बन्धः तयोर्भेदः सर्वैरपि वाच्यः, विशिष्टकेवलार्भेदं विना तज्ज्ञानादीनां मिथो बैलक्षण्यासिद्धेः । भेदज्ञानस्य विशिष्टधीमात्र- हेतुत्वात् प्रमात्वस्य भेदघटितत्वाच्च । अथवा समानाधिकृतत्वादाधा- , 1 घटाबोः