पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

32 अद्वैतसिद्धव्याख्यायां गुरुचन्द्रिकायां भूततद्धटे तद्भेदाभावात् । न च विशेष्यतावच्छेदकविशेषणतावच्छेद- कयोः भेद एव प्रमात्वघटकोस्त्विति वाच्यम्, अनवच्छिन्नविशेष्य ताकप्रमायां तदसम्भवात् । अथानवच्छिन्नविशेषणताकप्रमायां त्वदु- क्तिरपि न सम्भवतीति चेत् सत्यं, तथापि विशेष्यीभूता विशेष- णीभूता च या व्यक्ति तद्यक्तित्वावच्छिन्न प्रतियोगिताकभेदघटितं तद्व्यक्तिप्रमात्वमित्येकोक्तिः सम्भवत्येव । न च सा अनादरणीयेति वाच्यम् एकजातीयप्रमात्वस्य प्रमामात्रे व्यवहारात् । अन्यथा व्याप्तयादिलक्षणेष्वव्याप्त्युपन्यासस्य प्रलापत्वापत्तेः । एवञ्च घटत्वा- द्युपहितनानाव्यक्तिविशेषणस्थले तत्तव्यक्तित्वावच्छिन्नभेदघटितमिव तद्भू- टोपहितमात्रावेशेषणस्थलेऽपि तद्व्यक्तित्वावच्छिन्नभेदघटितप्रमात्वमुक्तम् । भेदस्य च विशेष्यीभूततद्धटे विरहात् तद्धटस्तटीय इत्यादेर्न प्रमा त्वम् । तथाचाभेदसम्बन्धस्थले तार्किकादेविशेषणविशेष्ययो भेदाङ्गी- कार आवश्यकः । अन्यथा घटो नीलो द्रव्यं घट इत्यादिघीप्रमात्वा- सम्भवात् । अतएव घटाभावो घटाभावधानित्यादावपि एकत्वादि- वीशष्टघटाभावत्व केवलघटभावत्वाभ्यां भेदस्वीकारेणैव निर्वाहः । न च नीलघटादिव्यक्तयोरुक्तरीत्या भेदसिद्धावपि नीलत्वघटत्वादिव्यक्तयोः प्रतियोगितानुयोगितावच्छेदकत्वासिद्ध्या उक्तानुमानानिर्वाह इति वाच्यम्, उक्तरीत्या तत्तन्नीलव्यक्तित्वतत्तद्धटव्यक्तित्वानां येषु भेदेषु प्रतियोगितानुयोगितावच्छेदकत्वं सिद्धं तेषु नलित्वघटत्वादीनां प्रतियो- गितानुयोगितावच्छेदकत्वावश्यकत्वात्, यो यदीययाव द्विशेषाभाववान् स तत्सामान्याभाववानिति व्याप्तेः विशेषाभावकूटस्यैव सामान्यधर्माव- च्छिन्न प्रतियोगिताकत्वरूपेण सामान्याभावत्वेन व्यवस्थाप्यत्वाच्च, न च तत्प्रतियोगिकतत्सम्बन्धानुयोगिनि तत्सम्बन्धेन तत्प्रकारकषीत्वं तत्सम्बन्धेन तत्प्रमात्वमिति वाच्यम्, दूषितत्वात् । किंच सम्बन्धप्रति- योगितानुयोगितयोः तद्धटादिस्वरूपत्वे येन संयोगेन तद्घटतत्पटयो- [[प्रथमः