पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] 31 आहार्यत्वेन ज्ञानत्वस्यास्वीकारेण स्वीकारेऽप्यनाहार्यस्यैव हेतुत्वेन उक्तहेत्वभावेन उक्तबुद्ध्यनुत्पादात् । न च भेदस्य प्रातीतिकत्वेन व्यव हारकालेऽपि बाधात् तदा तद्घटितं कपालं घट इत्यादिधीप्रमात्वं न व्यवहियेतेति वाच्यं, इष्टत्वात् । तदा घटत्वकपालत्वजात्योरप्यै- क्यज्ञानेन उक्तबुद्धेरनुत्पादाच्च । संयोगविशेषवत्कपालत्वरूपेण घटत्वे - नोक्तधीरप्युक्तयुक्ते भेदज्ञानमपेक्षत एव, संसर्गप्रतियोग्यनुयोगितावच्छे- दकयोः भेदस्यावश्यकत्वात् । यदिचैकरूपेणापि संयोगादिसंसर्गप्रति- योग्यनुयोगितेत्याग्रह, तथापि अभेदसंसर्ग प्रति तथा नैव । वस्तु- तस्तद्धटे स्वकीयसंयोगादिसत्त्वेऽपि तद्ब्रटः तद्धटीय इति प्रत्यया भावात् तद्यक्तिभिन्नवृत्तिसंयोगादिरेव तद्यक्तिसम्बन्धः । अतः घटो द्रव्यमित्यादौ अभेदसम्बन्धस्थले तद्व्यक्तेः स्वतो भेदाभावात् द्रव्य- त्वघटत्वादिरूपाभ्यामौपाधिको भेदोऽवश्यं वाच्यः । अतएव घटाभावे घटो नास्तीत्यादावपि एकत्वविशिष्टघटाभावत्व केवलघटा भावत्वाभ्यां भेदा- त्सम्बन्ध: । नच प्रतियोग्यनुयोगिभावः सम्बन्धनियामकः । न च घटा- भावो घटाभाववानित्यादौ विद्यमानोपि तद्घटस्तद्धटीय इत्यादौ नास्त्य- ननुभवादिति वाच्यम्, घटो द्रव्यमित्यादौ प्रतियोग्यनुयोगिनोः स्वतो- भेदाभावस्थले औपाधिकभेदान्यप्रतियोग्यनुयोगित्वकल्पने गौरवात् । तथाच तद्धटे स्वकीयसंयोगादिसत्त्वेऽपि तद्घटस्तद्घटीय इति षीप्र- मात्वाभावाद्विशेषणभेदमात्रस्य विशेष्यगततया प्रमात्वनियामकत्वास- म्भवाच्च । विशेषणतावच्छेदकावच्छिन्नप्रतियोगिता कभेदसमानाधिकर- णसंयोगादिरूपस्य तद्घटसम्बन्धस्याश्रये संयोगादिसम्बन्धेन तद्धट प्रकारकज्ञानत्वं संयोगादिसम्बन्धेन तद्धटप्रमात्वमित्येवंरीत्या प्रमात्वं तार्किकादिभिर्निर्वाच्यम् । नचैवं तद्धटस्तद्धटीय इत्यादेः प्रमात्वं दुर्वारं द्रव्यत्वादिविशिष्टे तद्घटत्वावच्छिन्नभेदसत्त्वादिति वाच्यम्, द्रव्यत्वादिविशिष्टस्य तद्घटत्वायुपहितान्यत्वेन अविशेष्यत्वात् विशेष्यी- " प्रपशमिथ्यात्वनिरूपणम्